Sbg 18.66 scsri
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Sridhara Swami ।।18.66।।ततोऽपि गुह्यतममाह -- सर्वेति। मद्भक्त्यैव सर्वं भविष्यतीति दृढविश्वासेन विधिकैकर्यं त्यक्त्वा मदेकशरणो भव। एवंवर्तमानः कर्मत्यागनिमित्तं पापं स्यादीति मा शुचः शोकं माकार्षीः। यतस्त्वा त्वां मदेकशरणं सर्वपापेभ्योऽहं मोक्षयिष्यामि।