Sbg 18.66 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।18.66।।कर्मयोगज्ञानयोगभक्तियोगरूपान् सर्वान् धर्मान् परमनिःश्रेयससाधनभूतान् मदाराधनत्वेन अतिमात्रप्रीत्या यथाधिकारं कुर्वाण एव उक्तरीत्या फलकर्मकर्तृत्वादिपरित्यागेन परित्यज्य माम् एकम् एव कर्तारम् आराध्यं प्राप्यम् उपायं च अनुसंधत्स्व।एष एव सर्वधर्माणां शास्त्रीयपरित्यागः इतिनिश्चयं श्रृणु मे तत्र त्यागे भरतसत्तम। त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः।। (गीता 18।4) इत्यारभ्यसङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः। (गीता 18।9)न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः। यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते।। (गीता 18।11) इति अध्यायादौ सुदृढम् उपपादितम्। अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि एवं वर्तमानं त्वां मत्प्राप्तिविरोधिभ्यः अनादिकालसंचितानन्ताकृत्यकरणकृत्याकरणरूपेभ्यः सर्वेभ्यः पापेभ्यो मोक्षयिष्यामि मा शुचः शोकं मा कृथाः।अथवा सर्वपापविनिर्मुक्तात्यर्थभगवत्प्रियपुरुषनिर्वर्त्यत्वाद् भक्तियोगस्य तदारम्भविरोधिपापानाम् आनन्त्यात् च तत्प्रायश्चित्तरूपैः धर्मैः अपरिमितकालकृतैः तेषां दुस्तरतया आत्मनो भक्तियोगारम्भानर्हताम् आलोच्य शोचतः अर्जुनस्य शोकम् अपनुदन् श्रीभगवान् उवाच -- सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रज इति।भक्तियोगारम्भविरोध्यनादिकालसंचितनानाविधानन्तपापानुगुणान् तत्प्रायाश्चित्तरूपान् कृच्छ्रचान्द्रायणकूष्माण्डवैश्वानरप्राजापत्यव्रातपतिपवित्रेष्टित्रिवृदग्निष्टोमादिकान् नानाविधानन्तान् त्वया परिमितकालवर्तिना दुरनुष्ठान् सर्वधर्मान् परित्यज्य भक्तियोगारम्भसिद्धये माम् एकं परमकारुणिकम् अनालोचितविशेषशेषलोकशरण्यम् आश्रितवात्सल्यजलधिं शरणं प्रपद्यस्व। अहं त्वा सर्वपापेभ्यो यथोदितस्वरूपभक्त्यारम्भविरोधिभ्यः सर्वेभ्यः पापेभ्यो मोक्षयिष्यामि? मा शुचः।