Sbg 18.66 scneel
Sanskrit Commentary By Sri Neelkanth ।।18.66।।एवं नमनयजनभजनमननक्रमेण सांख्यनिष्ठा उक्ता या पूर्वं ध्यानेनात्मनि पश्यन्तीत्यनेन श्लोकेन दर्शिता। इदानींअन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते। तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः इति केवलोपास्तिनिष्ठा योगाख्योक्ता तामाह -- सर्वेति। सर्वेषां वर्णानामाश्रमाणां देहेन्द्रियबुद्धीनां च धर्मानग्निहोत्रादीन् सुखदुःखादींश्च त्यक्त्वा मामेकं सर्वेश्वरं सर्वशक्तिं सोपाधिं निरुपाधिं वाऽखण्डैकरसमानन्दघनं परमात्मानम्। शरणं शृणाति हिनस्त्यविद्यादीन्क्लेशादीन् शरणमाश्रयः परायणं गच्छ प्राप्नुहि। मदेकशरणो भवेत्यर्थः। अत्र अन्नं भुक्त्वैव तृप्यति नतु जलमात्रं पीत्वेतिवद्धेतुत्वं क्त्वाप्रत्ययार्थः। सर्वधर्मपरित्यागेन मां शरणं व्रजेत्यर्थः। यथोक्तम्अनात्मदर्शनेनैव परात्मानमुपास्महे इति। एतस्य भगवच्छरणीकरणस्य फलमाह -- अहंत्वेति। अहं प्रत्यगात्मा सूर्याद्यन्तर्यामी नारायणः सकलपाप्मविनिर्मुक्तः सम्यग्ज्ञातः सन् त्वा त्वां सर्वपापेभ्यः संचितक्रियमाणेभ्यो गोत्रवधादिजेभ्यो मोक्षयिष्यामि। मा शुचः शोकं माकार्षीः। तथाहि। तत्त्वज्ञानफलं पापास्पर्शः शोकतरणं च सर्वश्रुतिस्मृतिप्रसिद्धम्। आदित्यान्तर्वर्तिनं नारायणं प्रकृत्य च्छान्दोग्ये श्रूयतेस एष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेदतरति शोकमात्मवित्तत्र को मोहः कः शोक एकत्वमनुपश्यतः इति। उदितः ऊर्ध्वमितो गतः पापान्युत्क्रम्य गतो,निष्पाप इति श्रुतिपदार्थः। वर्णाश्रमधर्मसंन्यासपूर्वकं षष्ठाध्यायेनोक्तेन योगेन देहादीनां धर्मांश्च त्यक्त्वा निर्विकल्पमात्मानं साक्षात्कुर्वतो न कर्मलेप इत्यर्थः।