Sbg 18.66 scjaya
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Jayatritha ।।18.66।।सर्वधर्मान् परित्यज्येति वर्णाश्रमविहितानामपि सर्वधर्माणां परित्यागो विधीयत इत्यन्यथाप्रतीतिनिरासार्थमाह -- धर्मे ति। प्रतीत एवार्थः किं न स्यात् इत्यत आह -- कथमि ति। अस्मिञ्छास्त्रे क्रियत इति शेषः। अशाब्दोऽऽयमर्थ इति चेत्? न धर्मशब्दस्य स्वकार्यफलोपलक्षणत्वात्। एवमेव भगवता व्याख्यातत्वाच्चेत्याह -- यस्त्वि ति।