Sbg 18.66 scang
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Abhinavgupta ।।18.66।।आह च --,सर्वधर्मानिति। यदिदं युद्धकरणे प्रासङ्गिकबन्धुवधादि? तस्य सर्वस्य अहं कर्त्ता इत्यात्मधर्मतां परित्यज्य तथा आचार्यादिहननक्रियानिषेधे मम धर्मो ( ? N ममाधर्मो ) भविष्यति इति मनसा विहाय मामेवैकं सर्वकर्तारं स्वतन्त्रं ( S omits एकं -- स्वतन्त्रम् ) शरणं सर्वस्वभावाधिष्ठायकतया व्रज। अत एवाहं सर्वज्ञः सर्वेभ्यः पापेभ्यस्त्वां मोक्षयिष्यामि इति। मा शुचः? किंकर्तव्यतामोहं मा गाः ( S? मा गमः )।