Sbg 18.4 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।18.4।। निश्चयमिति। तत्र कर्मणां त्यागात्त्यागविषये विप्रतिपत्तौ सत्यां प्रथमोपात्ते त्यागे विषये मे मद्वचनान्निश्चयं श्रृणु। हि यस्मात् हे पुरुषव्याघ्र? त्यागः त्रिविधः सात्त्विकराजसतामसभेदेन त्रिप्रकारः परिकीर्तितः शास्त्रे। दृढवैराग्यपूर्वकः कर्मसंन्यासः सात्त्विकः? आयासभयात्तत्त्यागो राजसः? मौढ्यात्तत्त्यागस्तामस इति? तस्माद्गहनत्वात्त्यागो निश्चयेन विचारणीय इत्यर्थः।