Sbg 18.49 scsri
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Sridhara Swami ।।18.49।।ननु कथं कर्मणि क्रियमाणे दोषांशप्रहाणेन गुणांश एव संपत्स्यत इत्यपेक्षायामाह -- असक्तेति। असक्ता सङ्गशून्या बुद्धिर्यस्य? जितात्मा निरहंकारः? विगतस्पृहो विगता स्पृहा फलविषयेच्छा यस्मात्स एवंभूतेनस त्यागः सात्त्विको मत इत्येवं पूर्वोक्तेन कर्मासक्तितत्फलयोस्त्यागलक्षणेन संन्यासेन नैष्कर्म्यसिद्धिं सर्वकर्मनिवृत्तिलक्षणां सत्त्वशुद्धिमधिगच्छति। यद्यपि सङ्गफलयोस्त्यागेन कर्मानुष्ठानमपि नैष्कर्म्यमेव? कर्तृत्वाभिनिवेशाभावात्। तदुक्तम् -- नैव किंचित्करोमीति युक्तो मन्येत तत्त्वित् इत्यादिश्लोकचतुष्टयेन? तथाप्यनेनोक्तलक्षणेन संन्यासेन परमां नैष्कर्म्यसिद्धिम्सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी इत्येवंलक्षणां पारमहंस्यापरपर्यायां प्राप्नोति।