Sbg 18.44 scval
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Vallabhacharya ।।18.44।।वैश्यशूद्रयोराह -- कृषीति। कुसीदस्य वाणिज्ये निवेशनान्न पृथगुक्तिः द्विजपरिचर्यात्मकं शूद्रस्येति मर्यादा इयं परिचर्यां भगवति कृता चेत्सर्वेषां उत्तमफलदा भवेत्यद्वृत्त्या तुष्यते हरिः इति वाक्यात्। स्पष्टमन्यत्।