Sbg 18.44 scsri

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Sridhara Swami ।।18.44।।वैश्यशूद्रयोः कर्माह -- कृषीति। कृषिः कर्षणम्? गाः रक्षतीति गोरक्षस्तस्य भावो गौरक्ष्यं पाशुपाल्यमित्यर्थः। वाणिज्यं क्रयविक्रयादि? एतद्वैश्यस्य स्वभावजं कर्म। त्रैवर्णिकपरिचर्यात्मकं शूद्रस्यापि स्वभावजं कर्म।