Sbg 18.44 scsh

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Shankaracharya ।।18.44।। --, कृषिगौरक्ष्यवाणिज्यं कृषिश्च गौरक्ष्यं च वाणिज्यं च कृषिगौरक्ष्यवाणिज्यम्? कृषिः भूमेः विलेखनम्? गौरक्ष्यं गाः रक्षतीति गोरक्षः तस्य भावः गौरक्ष्यम्? पाशुपाल्यम् इत्यर्थः? वाणिज्यं वणिक्कर्म क्रयविक्रयादिलक्षणं वैश्यकर्म वैश्यजातेः कर्म वैश्यकर्म स्वभावजम्। परिचर्यात्मकं शुश्रूषास्वभावं कर्म शूद्रस्यापि स्वभावजम् ।।


एतेषां जातिविहितानां कर्मणां सम्यगनुष्ठितानां स्वर्गप्राप्तिः फलं स्वभावतः? वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलधर्मायुःश्रुतवृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते इत्यादिस्मृतिभ्यः (आ. स्मृ. 2।2।2।3) पुराणे च वर्णिनाम् आश्रमिणां च लोकफलभेदविशेषस्मरणात्। कारणान्तरात्तु इदं वक्ष्यमाणं फलम् --,