Sbg 18.44 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।18.44।। कृषिः सस्योत्पादनकर्षणम्। गोरक्ष्यं पशुपालनम् इत्यर्थः। वाणिज्यं धनसंचयहेतुभूतं क्रयविक्रयात्मकं कर्म। एतद् वैश्य स्य स्वभावजं कर्म। पूर्ववर्णत्रयपरिचर्यारूपं शूद्रस्य स्वभावजं कर्म।तद् एतत् चतुर्णां वर्णानां वृत्तिभिः सह कर्तव्यानां शास्त्रविहितानां यज्ञादिकर्मणां प्रदर्शनार्थम् उक्तम्। यज्ञादयो हि त्रयाणां वर्णानां साधारणाः? शमदमादयः अपि त्रयाणां वर्णानां मुमुक्षूणां साधारणाः। ब्राह्मणस्य तु सत्त्वोद्रेकस्य स्वाभाविकत्वेन शमदमादयः सुखोपादानाः इति कृत्वा तस्य शमदमादयः स्वभावजं कर्म इति उक्तम्। क्षत्रियवैश्ययोः तु स्वतो रजस्तमःप्रधानत्वेन शमदमादयो दुःखोपादानाः इति कृत्वा न तत्कर्म इति उक्तम्। ब्राह्मणस्य तु वृत्तिः याजनाध्यापनप्रतिग्रहाः। क्षत्रियस्य जनपदपरिपालनम्। वैश्यस्य कृष्यादयो यथोक्ताः। शूद्रस्य तु कर्तव्यं वृत्तिः च पूर्ववर्णत्रयपरिचर्या एव।