Sbg 18.44 scms
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Madhusudan Saraswati ।।18.44।।कृषीति। कृषिरन्नोत्पत्त्यर्थं भूमेर्विलेखनम्। गोरक्षस्य भावो गौरक्ष्यं पाशुपाल्यम्। वाणिज्यं वणिजः कर्म क्रयविक्रयादिलक्षणम्। कुसीदमप्यत्रान्तर्गमनीयं वैश्यकर्म वैश्यजातेः कर्म स्वभावजं तमउपसर्जनरजोगुणस्वभावजम्। परिचर्यात्मकं द्विजातिशुश्रूषात्मकं कर्म शूद्रस्यापि स्वभावजं रजउपसर्जनतमोगुणस्वभावजम्।