Sbg 18.39 scvv

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha


।।18.39।।अनुबध्यत इत्यनुबन्धो विपाकः? मोहनशब्दस्यात्र भावार्थानन्वयात्करर्णार्थत्वमाह -- मोहहेतुरिति। निद्रादिजन्यसुखस्य विपरीतज्ञानहेतुत्वाभावात्मोहोऽत्र यथावस्थितवस्त्वप्रकाश इत्युक्तम्। राजससुखस्य विपाके मोहहेतुत्वं? तामससुखस्य तु तदानीमपीति लोकसिद्धमित्यभिप्रायेणोक्तं विवृणोति -- निद्रादयो हीति।स्पष्टमिति -- न युक्त्यागमसापेक्षमित्यर्थः। अलसस्य प्रवृत्त्यभावमात्रं दृश्यते? न ज्ञानाभाव इत्यत्राऽऽह -- आलस्यमिन्द्रियव्यापारमान्द्यमिति। ततः किं इत्यत्राऽऽह -- इन्द्रियेति। करणव्यापारतारतम्यानुगुणं हि कार्यतारतम्यम्। ज्ञानस्य मान्द्यं चाल्पविषयत्वम्। तच्च विषयान्तरप्रकाशाभावगर्भमिति भावः। प्रमादस्य स्वरूपेणैवापेक्षिताज्ञानरूपतामाहकृत्यानवधानरूप इति। एवमालस्यप्रमादयोरज्ञानानुविद्धत्वं दर्शितं तद्धेतुत्वं तु कथमित्यत्राऽऽह -- ततश्चेति। ज्ञानस्यापटुत्वं हि क्रमादत्यन्ताज्ञाने विश्राम्यतीति भावः। निद्रायाः सुखहेतुत्वमायासविश्रमहेतुत्वादिभिः? विच्छेदकेषु रोषाच्च लोकसिद्धम्? इन्द्रियव्यापारमान्द्यस्याप्यङ्गसङ्क्षोभादिनिवृत्तिद्वारा अनवधानस्य तु बुद्धेरेकाग्रताकल्पनरूपप्रयासनिवृत्त्येति। सुखाभासप्रसङ्गेनाकालनिद्रादिकं नोपादेयमित्युक्तं भवति। स्मरन्ति च -- यामद्वयं शयानस्तु ब्रह्मभूयाय कल्पते इत्यादि। आहुश्चायुर्वेदविदः -- अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता। सुखायुषी पराकुर्यात्कालरात्रिरिवापरा इति। गुणकृतविभागप्रकरणतात्पर्यमनुष्ठानपर्यवसानरूपप्रयोजनेनोपसंहरति -- अत इति।