Sbg 18.2 scpur

From IKS BHU
Jump to navigation Jump to search

 Sanskrit Commentary By Sri Purushottamji


।।18.2।।अस्योत्तरमाह श्रीभगवान् -- काम्यानामिति। काम्यानां ज्योतिष्टोमेन स्वर्गकामो यजेत। सर्वपाप्मानं तरति ब्रह्महत्यां तरति योऽश्वमेधेन यजते [आप.श्रौ.10।1।2।1] इत्यादिकर्मणां न्यासं परित्यागं कवयो निर्दुष्टशब्दरसिकाः सन्न्यासं विदुः जानन्तीत्यर्थः।अत्रायं भावः -- सन्न्यासशब्देन सम्यक्प्रकारेण न्यासं स्थापनं तच्च काम्यानां कामितफलपरित्यागेन भवदर्थफलार्थस्थापनरूपं शब्दार्थज्ञानेन ते जानन्ति। एतेन तेषामपि शब्दार्थज्ञानवत्त्वमेवोक्तं? न तु तत्त्वज्ञानवत्त्वमिति भावः। किञ्च? ये विचक्षणा विशेषेण व्याख्यानसमर्थाः चातुर्यादियुक्ताः सर्वकर्मणां नित्यनैमित्तिकानामपि फलत्यागं त्यागं प्राहुः। यद्यपि नित्यकर्मसु फलं न श्रूयते अहरहः सन्ध्यामुपासीत। यावज्जीवमग्निहोत्रं जुहुयात् [ ] इत्यादिषु? तथापि प्रत्यवायपरिहार एव फलमिति कल्पयन्ति। एतदेव विचक्षणत्वेनोक्तम्। तेऽपि तत्त्वं न जानन्तीत्यर्थः।