Sbg 18.26 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।18.26।। मुक्तसङ्गः फलसङ्गरहितः? अनहंवादी कर्तृत्वाभिमानरहितः धृत्युत्साहसमन्वितः? आरब्धे कर्मणि यावत्कर्मसमाप्त्यवर्जनीयदुःखधारणं धृतिः? उत्साहः उद्युक्तचेतस्त्वम्? ताभ्यां समन्वितः सिद्ध्यसिद्ध्योः निर्विकारः युद्धादौ कर्मणि तदुपकरणभूतद्रव्यार्जनादिषु च सिद्ध्यसिद्ध्योः अविकृचित्तः कर्ता सात्त्विक उच्यते।