Sbg 18.22 scsh
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Shankaracharya ।।18.22।। --, यत् (तु गी0 में) ज्ञानं कृत्स्नवत् समस्तवत् सर्वविषयमिव एकस्मिन् कार्ये देहे बहिर्वा प्रतिमादौ सक्तम् एतावानेव आत्मा ईश्वरो वा? न अतः परम् अस्ति इति? यथा नग्नक्षपणकादीनां शरीरान्तर्वर्ती देहपरिमाणो जीवः? ईश्वरो वा पाषाणदार्वादिमात्रम्? इत्येवम् एकस्मिन् कार्ये सक्तम्? अहैतुकं हेतुवर्जितं निर्युक्तिकम्? अतत्त्वार्थवत् अयथाभूतार्थवत्? यथाभूतः अर्थः तत्त्वार्थः? सः अस्य ज्ञेयभूतः अस्तीति तत्त्वार्थवत्? न तत्त्वार्थवत् अतत्त्वार्थवत् अहैतुकत्वादेव अल्पं च? अल्पविषयत्वात् अल्पफलत्वाद्वा। तत् तामसम् उदाहृतम्। तामसानां हि प्राणिनाम् अविवेकिनाम् ईदृशं ज्ञानं दृश्यते।।अथ इदानीं कर्मणः त्रैविध्यम् उच्यते --,