Sbg 18.22 scdhan

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।18.22।।राजसं ज्ञानमुदाहृत्य तामसं तदाह -- यत्त्विति। तुशब्दो राजसाद्वैलक्षण्यद्योतानार्थः। यत्तु ज्ञानमेकस्मिन्कार्ये देहे बहिर्वा प्रतिमादौ कृत्स्त्रवत्समस्तवत्परिपूर्णवत् एतावानेवात्मा ईश्वरो नातः परमस्तीति यथा चार्वाकादीनां शरीरानुर्तिदेहतपरिमाणो जीव ईश्वरो वा पाषाणदार्वादिमात्र इत्येवमभिनिवेशयुक्तं यतोऽहेतुकमुपपत्तिशून्यमहेतुकत्वादतत्त्वादतत्त्वार्थवत् यथाभूतोऽर्थस्तत्त्वार्थः सोऽस्य ज्ञेयभूतोऽस्तीति तत्त्वार्थवत् न तत्त्वार्थवदतत्त्वार्थवत्। तत एवाल्पं चाल्पविषयत्वादल्पफलत्वाद्वा तत्तामसानां प्राणिनां अविवेकिनां परिदृश्यमानमीदृशं ज्ञां हेयं तत्तामसमुदाहृतम्।