Sbg 18.21 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।18.21।।भेदज्ञाने राजसत्वमाह -- पृथक्त्वेनेति। यत्पृथक्त्वेन भिन्नत्वेन। ज्ञानं तद्राजसमिति संबन्धः।,पृथक्त्वेनेत्येतद्विवृणोति। सर्वेषु भूतेषु पाञ्चभौतिकत्वेनाविशिष्टेषु नानाभावान् सुरनरतिर्यक्स्थावरत्वभेदेन नानात्वानि। बहुवचनमत्यन्तभेदप्रदर्शनार्थम्। पृथग्विधान् एकजातीयेष्वपि नरादिषु प्रत्येकं विभिन्नप्रकारान् यज्ज्ञानं वेत्ति विषयीकरोतीति। येन ज्ञानेन वेत्तीति वक्तव्ये एधांसि पचन्तीतिवद्यज्ज्ञानं वेत्तिति करणे कर्तृत्वोपचारो बोध्यः। तेनात्मनां परस्परभेदस्तेषामीश्वराद्भेदस्तेभ्य ईश्वरादन्योन्यतश्च जडवर्गस्य भेद इत्यनौपाधिकभेदपञ्चकज्ञानं कुतार्किकाणां राजसमेवेत्यभिप्रायः।