Sbg 18.21 scanand

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Anandgiri ।।18.21।।द्वैतदर्शनान्यपि कानिचिद्भवन्ति सत्त्वनिर्वृत्तानि सम्यञ्चीत्याशङ्क्याह -- यानीति। तेषामसम्यक्त्वे हेतुमाह -- राजसानीति। प्रतिदेहमन्यत्वेन भिन्नात्मनो येन ज्ञानेन जानाति तज्ज्ञानं राजसमिति व्याचष्टे -- भेदेनेति। पृथक्त्वं पृथग्विधत्वं च पुनरुक्तमित्याशङ्क्य हेतुहेतुमत्त्वेन विभागं विवक्षित्वाह -- भिन्नेति। ज्ञानस्य ज्ञानकर्तृत्वमयुक्तमित्याशङ्क्याह -- येनेति।