Sbg 18.1 scval

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vallabhacharya ।।18.1।।अष्टादशे स्वगीतार्थस्त्यागन्यासविनिर्णयात्। सर्वधर्मान्परित्यज्य शरणे मोक्ष उच्यते।।1।।इह खलुसर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी [5।13]सन्न्यासयोगयुक्तात्मा [9।28] इत्यादिषु सन्न्यासशब्दोऽभिहितःत्यक्त्वा कर्मफलासङ्गं [4।20] इत्यादिषु त्यागशब्दश्च तत्र सन्न्यासत्यागशब्दयोरेकविषय एवार्थो विशेषो वा कश्चनेत्यवशेषिततत्त्वबुभुत्सयाऽर्जुन उवाच -- सन्न्यासस्येति। सन्न्यासस्य त्यागस्य च तत्त्वं पृथक् विवेकतो ज्ञातुमिच्छामि? संशयासुरनिरासार्थंमहाबाहो केशिनिषूदन इति सम्बोधयति।