Sbg 18.18 scjaya
Sanskrit Commentary By Sri Jayatritha ।।18.18।।यदि न जीवस्य कारणत्वं कथं तर्हि तज्ज्ञानादेरुत्तरवाक्ये कर्मणां मूलकारणत्वमुच्यते ज्ञानादित्रयं कर्मणां प्रवर्त्तकमितीत्याशङ्क्य तस्यार्थान्तरं विवक्षुस्तन्निवर्त्यामाशङ्कामाह -- एवं तर्ही ति। यदि जीवो न कर्मणां कारणमित्यर्थः। विधिः श्रौतः स्मार्तश्च। न प्रवर्तेत ततश्च तद्वैयर्थ्यप्रसङ्ग इति शेषः। एवं तर्हीत्युक्तस्यैव विवरणम् -- अकर्तृत्वादि ति। जीवस्य घटवदिति शेषः। ननु ज्ञानादिरूपेण कर्मचोदनायास्त्रैविध्यमयुक्तम्? अनुपयुक्तं च कथमुच्यते नियोक्तुः प्रेरणं हि विधिः? न च तज्ज्ञानादित्रयरूपम्। न चानेनोक्तशङ्कानिवृत्तिरित्यत आह -- त्रिविधे ति। स्पष्टप्रतीत्यर्थोऽनुवादः। इत्यत्रेति शेषः। एतत् ज्ञानादिकम्। कर्मविधिः प्रवर्तते? जीवं प्रतीति शेषः। इतिशब्दो हेतौ। त्रिविधेत्युच्यते कर्मचोदना निमित्तकनैमित्तिकभावेनाभेदोपचार इत्यर्थः। कर्मकारणानामुक्तत्वात्किमिदं पुनरुच्यते इत्यत आह -- कारणानी ति। तर्हि कर्मसङ्ग्रह इति कथं कारणसङ्ग्रहः इति वक्तव्यत्वादित्यत आह -- कर्मे ति। कर्मशब्देन तत्कारणानि लक्ष्यन्त इत्यर्थः। यदि पञ्चानां कारणानामयं सङ्ग्रहस्तर्हि कस्य कुत्रान्तर्भावः इत्यत आह -- अधिष्ठानादी ति। आदिपदेन दैवपदोक्तमदृष्टं गृह्यते।कांस्यपात्र्याभुङक्तेदैवेन कृतमन्यथा इत्यादिवत्साधकतमत्वेन विवक्षितत्वात्विवक्षातः कारकाणि भवन्ति इति वचनात्। न चादिपदेन चेष्टायाः सङ्ग्रहः तत्र कारकान्तर्भावस्यैवौचित्यात्? कर्मेति पृथग्ग्रहणाच्च। न च कर्मादृष्टम्कर्म चेष्टा इत्यन्यत्र व्याख्यातत्वात्।कर्तुरीप्सिततमं कर्म [अष्टा.1।4।49] इति कश्चित्। तदसत्? पञ्चसु कारणेषु तस्यागृहीतत्वात्।श्लोकार्थे श्रुतिसम्मतिं चाऽऽह -- तथा ही ति। कर्मेत्यावर्तनीयम्। तत्रैकं व्यस्तम्? परं समस्तम्। ननुज्ञानं ज्ञेयं इत्यनेन कथमुक्तशङ्कानिरासः इत्यत आह -- अकर्तृत्वेऽपी ति। अपराधीनकर्तृत्वाभावेऽपि जीवस्य न तं प्रति विधिवैयर्थ्यम्। कुतः इति हेतोरित्यन्वयः। विधिशब्देन तत् ज्ञानमुपलक्ष्यते इच्छेत्यनेन प्रयत्नोऽपि। उक्तकारणैरधिष्ठानादिभिः। अनेन ज्ञानं विधिविषयं चेच्छाप्रयत्नलक्षणमधिष्ठानादिलक्षणं पुरुषार्थलक्षणं च परिज्ञाता सर्वज्ञ ईश्वरश्च सर्वप्रेरको जीवे सन्निहितोऽस्ति। अतस्तं प्रति कर्मचोदनेत्यर्थः सूचितो भवति। एतदुक्तं भवति -- नापराधीनकर्तृत्वं विधिविषयत्वे प्रयोजकं येन जीवं प्रति कमविधिवैयर्थ्यं स्यात्। तथा सतीश्वरस्याऽपि विधिविषयत्वापातात्? किन्तु यस्य स्वसम्बन्धितया विधिज्ञानं कर्म तत्फलं चोद्दिश्येच्छा,तदनुगुणश्च प्रयत्नोऽधिष्ठानादिसन्निधानं कर्मसम्बन्धः फलभाक्त्वं चास्ति। तं प्रति कर्मविधयः प्रवर्तन्ते। अस्ति चेदं समस्तं परमेश्वरप्रसादायत्तं जीव इति कथं न तं प्रति कर्मविधयः स्युः एतत्सङ्ग्रहवाक्यमुत्तरवाक्यैर्विव्रीयते। नन्वीश्वरश्चेत्प्रेरको जीवशरीरेऽभ्युपगतस्तदा तत्प्रसादादेवेच्छाप्रयत्नयोरुत्पादनात्। किन्तु विधिज्ञानमङ्गीक्रियत इत्यत आह -- ईश्वरे ति। इच्छति प्रयतते चेति शेषः। अनेन विधिद्वारेश्वरप्रसादादिच्छोत्पत्त्येतद्विवृतं भवति।उक्तकारणैः कर्म भवतीत्युक्तम्? तेनाधिष्ठानादीनां स्वव्यापारे स्वातन्त्र्यं प्राप्तं तन्निरासार्थमाह -- यदि चे ति। ईश्वरेणैव कर्म अधिष्ठानादीनि निमित्तमात्राणि कृत्वा कारितं भवति। अत्र णिचं प्रयुञ्जानस्य स्वातन्त्र्यं चेति वक्ष्यमाणाभिप्रायः। कर्मद्वारा पुरुषार्थो भवतीति पुरुषार्थसाधने कर्मणां प्राधान्यं प्राप्तमत आह -- फलं चे ति। ईश्वरेणैवेति वर्तते? यद्वायदि च इत्यादिना वाक्यद्वयेन विधिविषयतासिद्धये कर्मफलसम्बन्धस्य काकतालीयता निराक्रियते। इदं च नेश्वरमुक्तजडेषु विध्यविषयेष्वस्ति? किन्तु संसारिष्वेवेति भवति प्रयोजकम्। एवमेकं गीतोक्तं कारणमुक्त्वा भाष्यकारः कारणान्तरं चाऽऽह -- वस्तुत इति। वस्तुतः परमार्थतः। अभिमानिकमहङ्कारकारितं भ्रान्तिप्रतीतम्। तस्य जीवस्य? एवेत्यवधारणेनास्य जीवं प्रति विधिप्रवृत्तौ प्रयोजकत्वं समर्थयते। परमेश्वरकृतासु क्रियासु स्वस्य स्वातन्त्र्यं मन्यमानस्यापराधिनो विधिबन्धलक्षणो दण्ड इति भावः। प्रकारान्तरमाह -- स्वातन्त्र्यं चे ति। तस्येति वर्तते। स्यादिदं विधिप्रवृत्ति(प्रवृत्तिविधि इति पाठः कृष्णाचार्याणाम्)वैयर्थ्यम्। यदि जीवस्य क्रियास्वातन्त्र्यलक्षणं कर्तृत्वं सर्वथा न स्यात्। न चैवम्? ईश्वरायत्तस्य तस्याङ्गीकारात् अपराधीनापेक्षया तदभावोक्तेः। न चैवं जडतौल्यमित्यत आह -- जडमपेक्ष्ये ति। अधिकमिति शेषः। जडं हि तदा परकृतेन नोदनादिना क्रियावद्भवति। न त्वागन्तुककारणमन्तरेण स्वेच्छया जीवस्त्वनादिसिद्धया परमेश्वरप्रसादायत्तया सत्तातुल्यया क्रियाशक्त्या कर्तेति युक्तस्तं प्रति कर्मविधिरिति। नन्वेतत्सर्वं कुतः प्रमाणात्प्रतिपत्तव्यं इत्यत आह -- सर्वं चे ति। अनुभवेनोक्तप्रमाणैश्च विधिज्ञाने सतीच्छोत्पत्तिरित्यादिकं अनुभवसिद्धम्।ईश्वरप्रसादात् इत्यादिकं तुयथानियुक्तोऽस्मि इत्याद्युदाहृतागमसिद्धम्। पृथक् पुनः।