Sbg 18.18 scang

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Abhinavgupta ।।18.18।।ज्ञानमिति। कर्मणि चोदना प्रवृत्तीच्छा। तत्समये येषाम् अबोधमात्रनिष्ठत्वात् ज्ञानज्ञेयज्ञातृश्रुतिवाच्यता ( -- वाच्यतया )? तेषामेव सम्यग्ग्रहणरूपं यत् फलाभिसंधानेन आत्मीयबुद्ध्या स्वीकरणम्? अहमेतत् भोक्ष्ये? यतो मया कृतम् इत्येवं रूपम् तत्समये तथा निर्वर्त्तनावसरे करणकर्मकर्तृशब्दाभिधेयत्वम्? आविष्टत्वात्। अतो योगिनाम् आवेशो नास्तीति तान् प्रति करणादिगिरां प्रसङ्गो नास्ति? अपि तु ज्ञानादिमात्रे ( K ज्ञानमात्र एव ) एव [ इति ] तात्पर्यम्।