Sbg 18.17 scsri

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Sridhara Swami ।।18.17।।कस्तर्हि सुमतिः यस्य कर्मलेपो नास्तीत्युक्तमित्यपेक्षायामाह -- यस्येति। अहमिति कुतोऽहं कर्तेत्येवंभूतो भावोऽभिप्रायो यस्य नास्ति। यद्वा अहंकृतोऽहंकारस्य भावः कर्तृत्वाभिनिवेशो यस्य नास्ति। शरीरादीनामेव कर्मकर्तृत्वालोचनादित्यर्थः। अतएव यस्य बुद्धिर्न लिप्यते इष्टानिष्टबुद्ध्या कर्मसु न सज्जते स एवंभूतो देहादिव्यतिरिक्तात्मदर्शी इमाँल्लोकान्सर्वानपि प्राणिनो लोकदृष्ट्या हत्वापि विविक्ततया स्वदृष्ट्या न हन्ति। नच तत्फलैर्निबध्यते बन्धनं न प्राप्नोति। किं पुनः सत्त्वशुद्धिद्वारा परोक्षज्ञानोत्पत्तिहेतुभिः कर्मभिस्तस्य बन्धशङ्केत्यर्थः। तदुक्तम्ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः। लिप्यते न स पापेन इति।