Sbg 18.17 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।18.17।।परमपुरुषकर्तृत्वानुसन्धानेन यस्य भावः कर्तृत्वविशेषविषयो मनोवृत्तिविशेषो न अहंकृतो न अहमभिमानकृतःअहं करोमि इति ज्ञानं यस्य न विद्यते इत्यर्थः। बुद्धिः यस्य न लिप्यते? अस्मिन् कर्मणि मम कर्तृत्वाभावाद् एतत् फलं न मया संबध्यते? न च मदीयम् इदं कर्म इति यस्य बुद्धिः जायते इत्यर्थः। स इमान् लोकान् युद्धे हत्वा अपि तान् न नि हन्ति न केवलं भीष्मादीन् इत्यर्थः। ततः तेन युद्धाख्येन कर्मणा न निबध्यते? तत्फलं न अनुभवति इत्यर्थः।सर्वम् इदम् अकर्तृत्वाद्यनुसन्धानं सत्त्वगुणवृद्ध्या एव भवति इति सत्त्वस्य उपादेयताज्ञापनाय कर्मणि सत्त्वादिगुणकृतं वैषम्यं प्रपञ्चयिष्यन् कर्मचोदनाप्रकारं तावद् आह --