Sbg 18.17 scms
Sanskrit Commentary By Sri Madhusudan Saraswati ।।18.17।।तदेवं चतुर्भिः श्लोकैःअनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्। भवत्यत्यागिनां प्रेत्य इति चरणत्रयं व्याख्यातम्। इदानींनतु संन्यासिनां क्वचित् इति तुरीयं चरणमेकेन व्याचष्टे -- यस्येति। यस्य पूर्वोक्तविपरीतस्य पुण्यैः कर्मभिः क्षपितेषु विवेकविरोधिपापेषु नित्यानित्यवस्तुविवेकादिसाधनचतुष्टयं प्राप्तवतः शास्त्राचार्योपदेशन्यायजनिताकर्त्रभोक्तृस्वप्रकाशपरमानन्दाद्वितीयब्रह्मात्मसाक्षात्कारस्याज्ञाने सकार्ये बाधिते न भवत्यहं कर्तेत्येवंरूपो भावः प्रत्ययो यस्य भावः सद्भावोऽहंकृतोऽहमिति व्यपदेशार्हो नाहंकारबाधेन शुद्धस्वरूपमात्रपरिशेषादिति वाहंकृतोऽहंकारस्य भावस्तत्तादात्म्यं यस्य न विवेकेन बाधितत्वादिति वा बाधितानुवृत्तावप्येत एव पञ्चाधिष्ठानादयो मायया मयि सर्वात्मनि कल्पिताः सर्वकर्मणां कर्तारो मया स्वप्रकाशचैतन्येनासङ्गेन कल्पितसंबन्धेन प्रकाश्यमानाः। अहं तु न कर्ता किंतु कर्तृतद्व्यापाराणां साक्षिभूतः क्रियाज्ञानशक्तिमदुपाधिद्वयनिर्मुक्तः शुद्धः सर्वकार्यकारणासंबद्धः कूटस्थनित्यो निर्द्वयः सर्वविकारशून्यःअसङ्गो ह्ययं पुरुषःसाक्षी चेता केवलो निर्गुणश्चअप्राणो ह्यमनाः शुद्धोऽक्षरात्परतः परःअज आत्मा महान्ध्रुवःसलिल एको द्रष्टाऽद्वैतःअजो नित्यः शाश्वतोऽयं पुराणःनिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् इत्यादिश्रुतिभ्यः।अविकार्योयमुच्यतेप्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहंकारविमूढात्मा कर्ताहमिति मन्यते। तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः। गुणा गुणेषु वर्तन्त इति मत्वा न सज्जतेशरीरस्थोऽपि कौन्तेय न करोति न लिप्यते इत्यादिस्मृतिभ्यश्च। तस्मान्नाहं कर्तेत्येवं परमार्थदृष्टेर्बुद्धिरन्तःकरणं यस्य न लिप्यते नानुशयिनी भवति। इदमहमकार्षमेतत्फलं भोक्ष्य इत्यनुसन्धानं कर्तृत्ववासनानिमित्तं लेपोऽनुशयः। स च पुण्ये कर्मणि हर्षरूपः पापे पश्चात्तापरूपः। ईदृशेन द्विविधेनापि लेपेन बुद्धिर्न युज्यते कर्तृत्वाभिमानबाधात्। तथाच ज्ञानिनं प्रकृत्य श्रुतिःएतमुहैवैते न तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते तपतः। तदेतदृचाभ्युक्तम्। एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान्। तस्यैव स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेन इति। पापकेनेति पुण्यस्याप्युपलक्षणम्। वर्धते कनीयानिति च पुण्यपापयोः परितोषपरितापाभिप्रायम्। एवं यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते स पूर्वोक्तदुर्मतिविलक्षणः सुमतिः परमार्थदर्शी पश्यत्यकर्तारमात्मानं केवलं सकर्तृकत्वाभिमानाभावादनिष्टादित्रिविधकर्मफलभागी न भवतीत्येतावति शास्त्रार्थेऽहंकाराभावबुद्धिलेपाभावौ स्तोतुमाह -- हत्वेति। हत्वा हिंसित्वापि न इमाँल्लोकान्सर्वान्प्राणिनो न हन्ति हननक्रियायाः कर्ता न भवत्यकर्तृस्वरूपसाक्षात्कारान्न निबध्यते। नापि तत्कार्येणाधर्मफलेन संबध्यते। अत्र नाहंकृतो भाव इत्यस्य फलं न हन्तीति? बुद्धिर्न लिप्यत इत्यस्य फलं न निबध्यत इति अनेन च कर्मालेपप्रदर्शनेऽतिशयमात्रमुक्तं नतु सर्वप्राणिहननं संभवति हत्वापीति कर्तृत्वाभ्यनुज्ञाबाधितकर्तृत्वदृष्ट्या लौकिक्या? न हन्तीति कर्तृत्वनिषेधः शास्त्रीयया परमार्थदृष्ट्येति न विरोधः। शास्त्रादौ नायं हन्ति न हन्यत इति सर्वकर्मासंस्पर्शित्वमात्मनः प्रतिज्ञाय न जायत इत्यादिहेतुवचनेन साधयित्वा वेदाविनाशिनमित्यादिना विदुषः सर्वकर्माधिकारनिवृत्तिः संक्षेपेणोक्ता मध्ये च तेन तेन प्रसङ्गेन प्रसारितेह शास्त्रार्थे तावत्त्वप्रदर्शनायोपसंहृता न हन्ति न निबध्यत इति। एवं चाविद्याकल्पितानामधिष्ठानाद्यनात्मकृतानां सर्वेषामपि कर्मणामात्मविद्यया समुच्छेदोपपत्तेः परमार्थसंन्यासिनामनिष्टादि त्रिविधं कर्मफलं न भवतीत्युपपन्नम्। परमार्थसंन्यासश्चाकर्त्रात्मसाक्षात्कार एव। जनकादीनामेतादृशसंन्यासित्वेऽपि बलवत्प्रारब्धकर्मवशाद्बाधितानुवृत्त्या परपरिकल्पनया वा कर्मदर्शनं न विरुद्धं परमहंसानामीदृशानां भिक्षाटनादिवत्। अतएव ज्ञानफलभूतो विद्वत्संन्यास उच्यते। साधनभूतस्तु विविदिषासंन्यासोऽनेवंविधोऽपि प्रथममुत्तरकाले ज्ञानोत्पत्तावेवंविधो भवतीति वक्ष्यते।