Sbg 18.17 scdhan
Sanskrit Commentary By Sri Dhanpati ।।18.17।।कः पुनः सुमतिः यः सम्यक्पश्यतीत्यपेक्षायामाह -- यस्येति। यस्य शास्त्राचार्योपदेशन्यासंस्कृतबुद्धित्वादहंकृतोऽहंकर्तेत्येवंलक्षणो भावो भावनाप्रत्ययः एते एव पञ्चाधिष्ठानदयोऽविद्ययात्मनि कल्पिताः सर्वकर्मणां कर्तारो नाहमहं तु तद्य्वापराणां साक्षिभूतोअप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः?केवलोऽविक्रियश्चे त्येवं पश्यतोऽहंकृतो भावो नास्तीत्यर्थः। बुद्धिर्यस्य न लिप्यते बुद्धिरन्तःकरणं यस्यात्मन उफाधिभूता न लिप्यतेऽहमकार्ष तेनाहं नरकं गमिष्टामिति क्लेशशालिनी न भवतीत्यर्थः। स सुमतिः कृतबुद्धिः सम्यक् द्रष्टा इमान्प्रत्यक्षादिनानुभूयमानान् लोकान्प्राणिनो हत्वापि न हन्ति हननक्रियां न करोति कर्तृत्वाभिमानरहितत्वात्। न निंबध्यते नापि तत्कार्येण हननक्रियाफलेन संबध्यते निर्लिप्तबुद्धित्वात्। भावः सद्भावः अहंकृतोऽहमिति व्यपदेशार्हो न? अहंकारबाधेन शुद्धस्वरुपमात्रपरिशेषादिति वाहंकृतोऽहंकारस्य भावस्तत्तादात्म्यं यस्य न विवेकेन बाधितत्वादितिवेति केचित्। यस्य नाहंकृत इति समानाधिकरणे षष्ठ्यौ। ततश्च यस्य लिङ्गलक्षणस्योपाधेरहंकारात्मिकां वृत्तिमनुत्पादयतोऽहमध्यसशून्यस्वभावः सत्ता। यद्वाहमहंकृतिं करोतीत्यहंकृदन्तःकरणं यस्य संबन्धिनोऽहंकृतोऽन्तःकरणस्य न भावः न स्थितिः। अहंकृतिशून्यं यस्यान्तःकरणमित्यर्थः। तथाहमा कृतोऽहमध्यासमूलक इतियावत्। एवंविधो भावः पदार्थो ममेत्यध्यासरुपो यस्य लिङ्गात्मनो नास्तीत्युभयविधाध्यासशून्यत्वमुक्तं भवति। यस्य प्रमातुर्भावः प्रत्ययमात्रस्वरुप आत्मा नाहंकृतः अहमिव कृतोऽहंकारतादात्म्यप्रापितोऽहंकृतस्तथा न यस्य बुद्धिर्लिप्यते आत्मभावेन रञ्जिता न भवति यस्य बुद्धेर्व्यतिरिक्तमात्मानं पश्यतो बुद्धिधर्माः कर्तृत्वादयो नात्मनि प्रतीयन्ते इति कर्त्रात्मवादितार्किकनिरासः। यस्यच आत्मधर्माश्यैतन्यादयो बुद्धौ न संसृज्यन्ते इति बुद्धमेव चेतनां वदतो बौद्धस्य निरासः। चिदचितोरन्योन्यस्मिन्नन्योन्यधर्माध्यासो यस्य नास्तीत्यर्थ इत्यन्ते। यस्य बुद्धिः शास्त्राचार्यसमाहिता तैलधारेवाविच्छिन्ना न लिप्यते विजातीयप्रत्ययलेपं न प्राप्नोति स पश्यतीति स विद्वानिति पूर्वश्लोकस्य पश्यतिपदानुषङ्गेण योज्यम्। कथंपुनरयमेवंविध इति ज्ञेयमित्याशङ्क्य चेष्टालिङ्गकमनुमानमाह -- हत्वापीति। हन्धातुनात्र तदुपाया लक्ष्यन्ते अवस्थितानिति चाध्याह्नियन्ते। ततश्च हिंसोपायभूतान्पाषाणप्रहरणादीनुपायान्कृत्वावस्थितनिमाँल्लोकान्स्वयं न हन्ति अहंममाभिमानशून्यत्वादित्यर्थः। अतश्च न निबध्यते नास्य बन्धो जीवन्मुक्तत्वादिरितीतरे। हत्वापि न हन्ति न निबध्यत इतिवाक्यशेषे हेतुत्वेन प्रतीयमानस्य यस्येत्यादेः? एतत्फलभूतेन प्रतीयमानस्य हत्वापीत्यादे श्च पूर्वपरानुगुण्येन व्याख्यानं कृतवतां सर्वज्ञानां मार्गप्रदर्शकानां भाष्यकृतामुदाहृतयत्किंत्कल्पनाकरणेन न्यूनता नापादनीया। ननु यद्यपि स्तुरिरियं तथापि हत्वापि न हन्तीति विप्रतिषिद्धमुच्यामानं कथमुपद्यत इतिचेत् देहाद्यात्मबुद्य्धा हन्ताहमिति हि लोकैर्द़्दश्यते। नाहं कर्ता किंतु तद्य्वापारसाक्षी क्रियाज्ञानशक्तिमदुपाधिद्वयविनिर्मुक्तः शुद्धःसन् कार्यकारणासंबद्धोऽद्वितीयोऽविक्रिय इत्येवं हि विद्वान्पश्यति लौकिकीं पारमार्थिकीं च दृष्टिमाश्रित्य तदुभयमुपपद्यत एवेति गृहाण। तथाच यः केवलमात्मानं अकर्तारं कर्तारं पश्यति स दुर्मतिः। यस्तु यथाभूतं आत्मानमकर्तारं पश्यति स सुमतिरिति द्वयोः संपिण्डितार्थः। ननुआत्मानं केवलं तु यः इति केवलपदप्रयोगादधिष्ठानादिविशिष्टः करोत्येव आत्मा। एवंविशिष्टस्य कर्तत्वे सति केवलमात्मानं यः कर्तारं पश्यति स दर्मतिरितिचेन्न। श्रुतिदधिष्ठानादिविशिष्टः करोत्येव आत्मा। एवंविशिष्टस्य कर्तृत्वे सति केवलमात्मानं यः कर्तारं पश्यति स दुर्मतिरितिचेन्न। श्रुतिस्मृत्यादिभिरात्मनोऽविक्रियस्वभावत्वप्रतिपादनात्। तथाच श्रुतिःअसङ्गो ह्ययं पुरुषःसाक्षी चेता केवलो निर्गुणश्चअप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परःअज आत्मा महान्ध्रुवःनिष्फलं निष्क्रियंध्यायतीव लेलायतीव इत्येवमाद्या। स्मृतयश्चकथं स पुरुषः पार्थ कं घातयति हन्ति कंअविकार्योऽयमुच्यतेप्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहंकारविमूढात्मा कर्ताहमिति मन्यतेशरीरस्थोऽपि कौन्तेय न करोति न लिप्यते इत्येवमाद्याः। न्यायाश्च न तावदात्मास्वतो विक्रियते निरवयवत्वादाकाशवत्। नापि परतोऽसङ्गस्याविकार्यस्य स्वतन्त्रस्य परतो विक्रियावत्त्वायोगात्। किंचात्मनो विक्रियावत्त्वाभ्युपगमे तस्य स्वनिष्ठाविक्रिया अधिष्ठानादिनिष्ठा वा। नाद्यः। श्रुत्यादिभिरात्मनोऽविक्रियत्वप्रतिपादनात्। न द्वितीयः। अन्यनिष्ठाविक्रियाऽन्यस्मिन्निति विप्रतिषिद्धत्वात्। अविद्यया गमितमपि नान्यनिष्ठत्वमन्यस्य यथा रजतत्वं न शुक्तिकायां यथा तलमलिनत्वं बाहैर्गमितमविद्यया नाकाशस्य तथाधिष्ठानादिविक्रियापि तेषामेव नात्मनस्तस्मादविक्रियस्यात्मनः केनचित्संहननं संहत्य वा कर्तत्वं संभवतीति केवलत्वामात्मनः स्वाभाविकं केवलशब्दोऽनुवदति। नायं हन्ति न हन्यत इति प्रतिज्ञाय न जायत इत्यादिना हेतुवचनेनाविक्रियत्वमुक्त्वा वेदाविनाशिनमिति विदुषः कर्माधिकारनिवृत्तिं शास्त्रादौ संक्षेपत उक्त्वा तत्रतत्र प्रसङ्गं कृत्वा प्रसारितं न हन्ति न निबध्यत इत्युपसंहरति।,एवंसति देहभृत्त्वाभिमानानुपपत्त्वाविद्याकृताशेषकर्मसंन्यासेपपत्तेः परमार्थसंन्यासिनामनिष्टादित्रिविधं कर्मणः फलं न भवतीत्युपपन्नं तद्विपर्ययश्चेतरेषां भवतीत्येतच्चापरिहार्यमित्येष गीताशास्त्रस्यार्थ उपसंहृतः। स एष वेदार्थसारो निपुणमतिभिः पण्डितैर्विचार्ये प्रतिपत्तव्य इति।