Sbg 18.17 scanand

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Anandgiri ।।18.17।।विपरीतदृष्टेर्दुर्मतित्वं शिष्ट्वा सम्यग्दृष्टेः सुमतित्वं प्रश्नपूर्वकमाह -- कः पुनरित्यादिना। अहं कर्तेत्यात्मनि कर्तृत्वप्रत्ययाभावे कुत्र कर्तृत्वधीरित्याशङ्क्याह -- एत इति। कथं तर्हि कर्तृत्वधीरात्मनीत्याशङ्क्याधिष्ठानादीनां तद्व्यापाराणां च साक्षित्वादित्याह -- अहं त्विति। आत्मनो न स्वतोऽस्ति क्रियाशक्तिमत्त्वमित्यत्र प्रमाणमाह -- अप्राणो हीति। नापि तस्य स्वतो ज्ञानशक्तिमत्त्वमित्याह -- अमना इति। उपाधिद्वयासंबन्धे शुद्धत्वं फलितमाह -- शुभ्र इति। कारणसंबन्धादशुद्धिमाशङ्क्योक्तं -- अक्षरादिति। कार्यकारणयोरात्मास्पर्शित्वेन पार्थक्ये सद्वितीयत्वमाशङ्क्य तयोरवस्तुत्वान्मैवमित्याह -- केवल इति। जन्मादिसर्वविक्रियारहितत्वेन कौटस्थ्यमाह -- अविक्रिय इति। बुद्धिर्यस्येत्यादि व्याचष्टे -- बुद्धिरिति। नानुशायिनी नानुशयवती। न क्लेशशालिनीत्यर्थः। द्वितीयपादस्याक्षरार्थमुक्त्वा वाक्यार्थमाह -- इदमिति। पापं कर्मेदमा परामृश्यते। लोकानां प्राणसंबन्धाभावे कुतो हिंसेत्याशङ्क्याह -- प्राणिन इति। विरुद्धार्थोक्त्या स्तुतिरपि न युक्तेति शङ्कते -- नन्विति। विरोधं परिहरति -- नैष दोष इति। लौकिकदृष्टिमवष्टभ्य हत्वापीति निर्देशं विशदयति -- देहादीति। तात्त्विकीं दृष्टिमास्थाय न हन्तीत्यादि निर्देशमुपपादयति -- यथेति। नाहं कर्ता किंतु कर्तृतद्व्यापारयोः साक्षी क्रियाज्ञानशक्तिमदुपाधिद्वयविनिर्मुक्तः शुद्धः सन् कार्यकारणासंबन्धोऽद्वितीयोऽविक्रिय इत्येवं पारमार्थिकदृष्टेर्यथादर्शितत्वं द्रष्टव्यम्। हत्वापीत्येतन्न हन्तीत्यादि चोभयं दृष्टिद्वयावष्टम्भादुपपन्नमित्युपसंहरति -- तदुभयमिति। केवलमेवात्मानं कर्तारं पश्यन्दुर्मतिरित्यत्रात्मविशेषणसमर्पककेवलशब्दसामर्थ्यादात्मनो विशिष्टस्य कर्तृत्वमिति शङ्कते -- नन्विति। आत्मनो वैशिष्ट्यायोगान्न विशिष्टस्यापि कर्तृत्वमिति दूषयति -- नैष दोष इति। अविक्रियस्वाभाव्येऽपि कथमात्मनोऽसंहतत्वमित्याशङ्क्याह -- विक्रियेति। अधिष्ठानादिभिरात्मनः संहननेऽपि न कर्तृत्वमविक्रियस्य क्रियान्वयव्याघातादित्याह -- संहत्येति। संहतत्वानुपपत्तिं व्यक्तीकरोति -- नत्विति। असंहतत्वे फलितमाह -- इति नेति। कथं तर्हि केवलत्वमात्मनि केवलशब्दादुक्तं तदाह -- अत इति। अकर्तृत्वमात्मनोऽभ्युपपन्नं नास्याविक्रियत्वमुपैतीत्याशङ्क्याह -- अविक्रियत्वं चेति। तत्र स्मृतिवाक्यान्युदाहरति -- अविकार्योऽयमिति। नायं हन्ति न हन्यत इत्यादिवाक्यमादिशब्दार्थः। उक्तवाक्यानामात्माविक्रियत्वे तात्पर्यं सूचयति -- असकृदिति। निष्कलं निष्क्रियं शान्तमित्यादि वाक्यं श्रुतावादिशब्दार्थः? यानि वाक्यानि तैरात्मनोऽविक्रियत्वं दर्शितमिति योजना? न्यायतश्च तद्दर्शितमिति पूर्वेण संबन्धः। न्यायमेव दर्शयति -- निरवयवमिति। न तावेदात्मा स्वतो विक्रियते निरवयवत्वादाकाशवन्नापि परतोऽसङ्गस्याकार्यस्य पराधीनत्वायोगादित्यर्थः। किंचात्मनः स्वनिष्ठा वा,विक्रियाधिष्ठानादिनिष्ठा वा? नाद्यः स्वनिष्ठविक्रियानुपपत्तेरात्मनो दर्शितत्वादित्याशयेनाह -- विक्रियावत्त्वेति। सा चायुक्तेत्युक्तमिति शेषः। द्वितीयं दूषयति -- नेत्यादिना। अधिष्ठानादिकृतमपि कर्म तद्योगादात्मन्यागच्छतीत्याशङ्क्य तदागमनं वास्तवमाविद्यं वेति विकल्प्याद्यं दूषयति -- नहीति। द्वितीयं निरस्यति -- यत्त्विति। आत्मन्यविद्याप्रापितं कर्म नात्मीयमित्येतद्दृष्टान्ताभ्यामुपपादयति -- यथेत्यादिना। आत्मनोऽविक्रियत्वेन कर्तृत्वाभावे फलितमाह -- तस्मादिति। ननु प्रागेवात्मनोऽविक्रियत्वं प्रतिपादितं तदिह कस्मादुच्यते तत्राह -- नायमिति। शास्त्रादौ प्रतिज्ञातं हेतुपूर्वकं संक्षिप्योक्त्वा मध्ये तत्र तत्र प्रसङ्गं कृत्वा प्रसारितां कर्माधिकारनिवृत्तिमिहोपसंहरतीति संबन्धः। प्रतिज्ञातस्य हेतुनोपपादितस्यान्ते निगमनं किमर्थमित्याशङ्क्याह -- शास्त्रार्थेति। कर्माधिकारो विदुषो नेति स्थिते तस्य देहाभिमानाभावे सत्यविद्योत्थसर्वकर्मत्यागसिद्धेरनिष्टमिष्टं मिश्रं चेति त्रिविधं कर्मफलं संन्यासिनां नेति प्रागुक्तं युक्तमेवेति परमप्रकृतमुपसंहरति -- एवंचेति। ये पुनरविद्वांसो देहाभिमानिनस्तेषां त्रिविधं कर्मफलं संभवत्येवेति हेतुवचनसिद्धमर्थं निगमयति -- तद्विपर्ययाच्चेति। अधिष्ठानादिकृतं कर्म नात्मकृतमविदुषामेव कर्माधिकारो देहाभिमानित्वेन तत्त्यागायोगाद्देहाभिमानाभावात्तु विदुषां कर्माधिकारनिवृत्तिरित्युपसंहृतमर्थं संक्षिप्याह -- इत्येष इति। उक्तश्च गीतार्थो वेदार्थत्वादुपादेय इत्याह -- स एष इति। कथमयमर्थो वेदार्थोऽपि प्रतिपत्तुं शक्यते तत्राह -- निपुणेति। भाष्यकृता मानयुक्तिभ्यां विभज्यानुक्तत्वान्नास्यार्थस्योपादेयत्वमित्याशङ्क्याह -- तत्रेति।