Sbg 18.16 scval

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vallabhacharya ।।18.16।।तत्रैवं सति पञ्चहेतुके कर्मणि सति वस्तुतः प्रकृतिपुरुषप्रयोजकभूतपरमात्मानुमतिपूर्वके जीवात्मनः कर्तृत्वे सति तत्र कर्मणि केवलमात्मानं स्वमेव कर्तारं पश्यति यः स परं विपरीतमतिः अकृतबुद्धित्वात् यथावस्थितं कर्तारं न पश्यति यतः।