Sbg 18.16 scms
Sanskrit Commentary By Sri Madhusudan Saraswati ।।18.16।।इदानीमेतेषामेव कर्मकर्तृत्वादात्मनो न कर्तृत्वमित्यधिष्ठानादिनिरूपणफलमाह -- तत्रैवमिति। तत्र कर्मणि प्रागुक्तसर्वस्मिन्नेवं सत्यधिष्ठानादिपञ्चहेतुके सति तैर्निर्वर्त्यमाने आत्मानं सर्वजडप्रपञ्चस्य भासकं सत्तास्फूर्तिरूपं स्वप्रकाशपरमानन्दमबाध्यं केवलमसङ्गोदासीनमकर्तारमविक्रियमद्वितीयं तु एव परमार्थतोऽविद्यया त्वधिष्ठानादौ प्रतिबिम्बितमादित्यमिव तोये तद्भासकमनन्यत्वेन परिकल्प्य तोयचलनेनादित्यश्चलतीतिवदधिष्ठानादिकर्मणोऽहमेव कर्तेति साक्षिणमपि सन्तं कर्तारं क्रियाश्रयं यः पश्यत्यविद्यया कल्पयति रज्जुमिव भुजङ्गं स एवं पश्यन्नपि न पश्यत्यात्मानं तत्त्वेन स्वरूपाज्ञानकृतत्वादध्यासस्य स भ्रान्त्या विपरीतमेव पश्यति न यथातत्त्वमित्यत्र को हेतुरत आह -- अकृतबुद्धित्वादिति। शास्त्राचार्योपदेशन्यायैरनुपजनितविवेकबुद्धित्वात्। नहि रज्जुतत्त्वसाक्षात्काराभावे भुजङ्गभ्रमं कश्चन बाधते एवं शास्त्राचार्योपदेशन्यायैः परिनिष्ठितेअहमस्मिसत्यं ज्ञानमनन्तम्अकर्त्रभोक्तृपरमानन्दमनवस्थमद्वयं ब्रह्म इति साक्षात्कारेऽनुपजनिते कुतो मिथ्याज्ञानतत्कार्यबोधः। एतादृशं साक्षात्कारं गुरुमुपसृत्य वेदान्तवाक्यविचारेण कुतो न जनयतीत्यत आह -- दुर्मतिरिति। दुष्टा विवेकप्रतिबन्धकपापेन मलिना मतिर्यस्य सः? अतोऽशुद्धबुद्धित्वान्नित्यनित्यावस्तुविवेकादिशून्यत्वेन तत्त्वज्ञानायोग्यत्वादकर्तारमपि कर्तारं केवलमप्यकेवलमात्मानमविद्यया कल्पयन्संसारी कर्माधिकारी देहभृदकृतबुद्धिः कर्मकर्तृषु तादात्म्याभिमानात्कर्मत्यागासमर्थः सर्वदा जननमरणप्रबन्धेनानिष्टमिष्टं मिश्रं च कर्मफलमनुभवति। एतेन यस्तार्किको देहादिव्यतिरिक्तमात्मानमेव कर्तारं केवलं पश्यति सोऽप्यकृतबुद्धित्वेन व्याख्यातः। अन्यस्त्वाह। आत्मा केवलो न कर्ता किंत्वधिष्ठानादिभिः संहतः सन् परमार्थतः कर्तैव कर्तारमात्मानं,केवलं पश्यन् दुर्मतिरिति केवलशब्दप्रयोगादिति। तन्न। परमार्थतः सर्वक्रियाशून्यस्यासङ्गस्यात्मनोऽधिष्ठानादिभिः संहतत्वानुपपत्तेर्जलसूर्यकादिवत्त्वाविद्यकेन संहतत्वेन कर्तृत्वमपि तादृशमेवाधिष्ठानादीनामप्याविद्यकत्वाच्च। केवलशब्दस्तु स्वभावसिद्धमात्मनोऽसङ्गाद्वितीयरूपत्वमनुवदति कर्तृत्वदर्शिनो दुर्मतित्वहेतुत्वेनेत्यदोषः।