Sbg 18.16 scdhan

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।18.16।।एवमधिष्ठानादीनां सर्वकर्मणि हेतुत्वमुक्त्वाऽविदुष आत्मन्यकर्तरि कर्तृत्वदृष्टिमनुवदति -- तत्रैवं सतीति। एवं यथोक्तैः पञ्चभिर्हेतुभिः सर्वस्मिन्कर्मणि निर्वर्त्ये सति केवलं शुद्धमसंहतं अकर्तारमात्मानमात्मानोऽनन्यत्वेन,कल्पितैरधिष्ठानादिभिःक्रियमाणस्य कर्मणोऽहमेव कर्तेति कर्तारं योऽकृतबुद्धित्वात् वेदान्तचार्योपदेशन्यायैरसंस्कृतबुद्धित्वात्पश्यति अतः स दुर्मतिः नैव पश्यति। योऽपि देहातिरिक्तात्मवादी तार्किकादिः केवलमकर्तारं शुद्धमात्मानं कर्तारं पश्यत्यसावप्यकृतबुद्धित्वान्न पश्यति आत्मनः। कर्मणो वा तत्त्वम्। अतो दुरमतिः कुत्सिता विपरीता दुष्टाऽस्त्रं जननमरणाप्राप्तिहेतुभूता मतिरस्येति। स पश्यन्नपि न पश्यति। यथा तैमिरिकोऽनेकचन्द्रं यथावान्येषु धावत्स्वेवासनास्थि आत्मनं धावन्तं पश्यति तथाधिष्ठानादिषु क्रियाकर्तुषु तद्गतः स्वात्मानमकर्तारं पश्यति स दुर्मतिरित्यर्थः।