Sbg 18.11 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।18.11।। न हि देहभृता ध्रियमाणशरीरेण कर्माणि अशेषतः त्यक्तुं शक्यम् देहधारणार्थानाम् अशनपानादीनां तदनुबन्धिनां च कर्मणाम् अवर्जनीयत्वात् तदर्थं च महायज्ञाद्यनुष्ठानम् अवर्जनीयम्। यः तु तेषु महायज्ञादि कर्मसु फलत्यागी स एवत्यागेनैके अमृतत्वमानशुः (महाना0 8।14) इत्यादिशास्त्रेषु त्यागी इति अभिधीयते।फलत्यागी इति प्रदर्शनार्थः? फलकर्तृत्वकर्मसङ्गानां त्यागी इतित्रिविधः संप्रकीर्तितः इति प्रक्रमात्।


ननु कर्माणि अग्निहोत्रदर्शपूर्णमासज्योतिष्टोमादीनि महायज्ञादीनि च स्वर्गादिफलसम्बन्धितया शास्त्रैः विधीयन्ते। नित्यनैमित्तिकानाम् अपिप्राजापत्यं गृहस्थानाम् (वि0 पु0 1।6।37) इत्यादिफलसम्बन्धितया एव हि चोदना। अतः तत्फलसाधनस्वभावतया अवगतानां कर्मणाम् अनुष्ठाने बीजावापादीनाम् इव अनभिसंहितफलस्य अपि इष्टानिष्टरूपफलसम्बन्धः अवर्जनीयः अतो मोक्षविरोधिफलत्वेन मुमुक्षुणा न कर्म अनुष्ठेयम् इति? अत उत्तरम् आह --