Sbg 18.10 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।18.10।।एवं सत्त्वसमाविष्टो मेधावी यथावस्थिततत्त्वज्ञानः तत एव छिन्नसंशयः कर्मणि सङ्गफलकर्तृत्व त्यागी न द्वेष्टि अकुशलं कर्म कुशले च कर्मणि न अनुषज्जते।अकुशलं कर्म अनिष्टफलम्? कुशलं च कर्म इष्टरूपस्वर्गपुत्रपश्वन्नादिफलम् सर्वस्मिन् कर्मणि ममतारहितत्वात् त्यक्तब्रह्मव्यतिरिक्तसर्वफलत्वात्? त्यक्तकर्तृत्वात् च तयोः क्रियमाणयोः प्रीतिद्वेषौ न करोति। अनिष्टफलं पापं कर्म अत्र प्रामादिकम् अभिप्रेतम्?नाविरतो दुश्चरितान्नाशान्तो नासमाहितः। नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात्।। (कठ0 उ 0 1।2।24) इति दुश्चरिताविरतेः ज्ञानोत्पत्तिविरोधित्वश्रवणात्।अतः कर्मणि कर्तृत्वसङ्गफलानां त्यागः शास्त्रीयः त्यागः न कर्मस्वरूपत्यागः।तद् आह --