Sbg 18.10 scms

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhusudan Saraswati ।।18.10।।सात्त्विकस्य त्यागस्यादौ सत्त्वशुद्धिद्वारेण ज्ञाननिष्ठां फलमाह -- न द्वेष्टीति। यस्त्यागी सात्त्विकेन त्यागेन युक्तः पूर्वोक्तेन प्रकारेण कर्तृत्वाभिनिवेशं फलाभिसन्धिं च त्यक्त्वान्तःकरणशुद्ध्यर्थं विहितकर्मानुष्ठायी स यदा सत्त्वसमाविष्टः सत्त्वेनात्मानात्मविवेकज्ञानहेतुना चित्तगतेनातिशयेन सम्यग्ज्ञानप्रतिबन्धकरजस्तमोमलराहित्येनासमन्तात्फलाव्यभिचारेण समाविष्टो व्याप्तो भवति भगवदर्पितनित्यकर्मानुष्ठानात्पापमलापकर्षलक्षणेन ज्ञानोत्पत्तियोग्यतारूपपुण्यगुणाधानलक्षणेन च संस्कारेण संस्कृतमन्तःकरणं यदा भवतीत्यर्थस्तदा मेधावी शमदमसर्वकर्मोपरमगुरूपसदनादिसामवायिकाङ्गयुक्तेन मनननिदिध्यासनाख्यफलोपकार्यङ्गयुक्तेन च श्रवणाख्यवेदान्तवाक्यविचारेण परिनिष्पन्नं वेदान्तमहावाक्यकरणकं निरस्तसमस्ताप्रामाण्याशङ्कं चिदन्याविषयकमहं ब्रह्मास्मीति ब्रह्मात्मैक्यज्ञानमेव मेधा तया नित्यं युक्तो मेधावी स्थितप्रज्ञो भवति तदा छिन्नसंशयोऽहं ब्रह्मास्मीति विद्यारूपया मेधया तदविद्योच्छेदे तत्कार्यसंशयविपर्ययशून्यो भवति तदा क्षीणकर्मत्वात् न द्वेष्ट्यकुशलं कर्म अशोभनं काम्यं निषिद्धं वा कर्म न प्रतिकूलतया मन्यते? कुशले शोभने नित्ये कर्मणि नानुषज्जते न प्रीतिं करोति? कर्तृत्वाद्यभिमानरहितत्वेन कृतकृत्यत्वात्। तथाच श्रुतिःभिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे इति। यस्मादेवं सात्त्विकस्य त्यागस्य फलं तस्मान्महतापि यत्नेन स एवोपादेय इत्यर्थः।