Sbg 18.10 scdhan
Sanskrit Commentary By Sri Dhanpati ।।18.10।।एवं सात्त्विकं त्यागमुक्त्वा योऽधिकृतः सङ्गं फलाभिसन्धिं च त्यक्त्वा कर्म करोति तादृशकर्मानुष्ठानेन संस्कृतात्मा सन् जन्मादिविक्रियारहितत्वेन निष्क्रियमात्मानमात्मत्वेन संबुद्धः सर्वकर्माणि मनसा संन्यस्य नैव कुर्वन्न कारयन्नासीनो नैष्कर्म्यलक्षणां ज्ञाननिष्ठां प्राप्नोतीत्येतत्पूर्वोक्तस्य कर्मयोगस्य प्रयोजनमाह -- न द्वेष्टीति। यस्त्यागी पूर्वोक्तसङ्गफलत्यागवान् नित्यकर्मानुष्ठायी यदा सत्त्वसमाविष्टः सङगं फलाभिसंधिं च त्यक्त्वा कर्मानुष्ठानतः सङ्गफलाभ्यामकलुषीक्रियमाणं नित्यैश्च कर्मभिः संस्िक्रयमाणं विशुद्धं समुद्धुद्धसत्त्वमात्मानात्मविवेकविज्ञानत्वन्तःकरणं सत्त्वमत्र ग्राह्यं तेन समाविष्टः संव्याप्तः संयुक्त इति यावत्। अतएव मेधावी ब्रह्मात्मज्ञानलक्षणा प्रज्ञा मेधा तद्वान् मेधावी। मेदावित्यावेद ब्रह्मात्मस्वरुपावस्थानमेव परं निःश्रेयससाधनं नान्यत्किंचिदित्येव निश्चयेन छिन्नोऽविद्याकृतः संशयो यस्य स छिन्नसंशयःतमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय भिद्यते हृदयग्रन्थिश्छद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे इति श्रुतेः। स तदा अकुशलमशोभनं काम्यं निषिद्धं च कर्म न द्वेष्टि। काम्यादिकर्मशरीरारम्भादिद्वारेण संसारकारणमतः किमनेनेत्येवं द्वेषं न करोति। कुशले चित्तशुद्य्धादिद्वारा मोक्षहेतुत्वाच्छोभने नित्ये कर्मणि नावुषज्जते। सत्त्वशुद्धिज्ञानोत्पत्तितन्निष्ठाहेतुत्वेन मोक्षकारणमतोऽनेन मदीयं प्रयोजनं सेत्स्यतीत्यनुषङ्गमासक्तिं प्रीतिं न करोतीत्यर्थः। एवंभूतसात्त्विकपरित्यागनिष्ठस्य लक्षणमाह -- सत्त्वसमाविष्टः सात्त्विकत्यागी अकुशलं दुःखावहं शिशिरे प्रातःस्नादिकर्म न द्वेष्टि? कुशले च सुखकरे कर्मणि निदाघे मध्याह्नस्त्रानादौ नानुषज्जते प्रीतिं न करोति। तत्र हेतुः -- मेधावी स्थिरबुद्धिः। यत्र परपरिभवादिमहद्दुःखमपि सह्यते स्वर्गादिसुखं च त्यज्यते तत्र कियदेतत्तात्कालिकं सुखं दुःखं चैवमनुसंधानवानित्यर्थः। अतएव छिन्नः संशयो मिथ्या ज्ञानं दैहिकसुखदुःखयोरुपादित्सापरिजिहीर्षालक्षणं यस्य स इत्यपरे। इतरे तु सतु त्यागी सात्त्विकत्यागकर्ता। तुशब्दस्तामसराजसत्यागकर्ततो विशेषद्योतकः। अकुशलमविवेकिनं मोक्षकथानभिज्ञं देहाभिमानिनम्। अतएवान्तःकरणशुद्धिप्रयोजनककर्माचरणासहिष्णुं किमर्थं वा एतत्कर्माचरसि किंवा पुत्रदारादिनिर्वाहकृत्कर्म त्यजसीत्येवमीदिजल्पन्तं न द्वेष्टि धिक् त्वां परतो गच्छेत्येवमादिचेष्टाभावद्वेषं न करोतीत्यर्थः। तथा कर्मकुशले नित्यनैमित्तिककर्माचरणकुशले तन्मात्रसङ्गत्फलत्यागवति स्वसमाने नानुषज्जतेददाति प्रतिगृणाति गुह्यमाख्याति पृच्छति। भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् इत्युक्तमनुषह्गं न करोति। ननु तस्योभयविधलिङ्गदर्शनात्संशय एव किं न स्यादित्य उक्तं छिन्नसंशयः संशयरहितः। तत्रैव हेतुमाह -- मेधावीति। स्वीकरणानिश्चयधारणावान्। कुतोयं निश्चयस्तस्येत्यत उक्तं असमाविष्ट इति। असमे क्षयिफलान्तरासदृशो निरतिशयानन्दरुपे फले आविष्टो लिप्सावान् अत ईदृग्लक्षणो व्याप्तत्यागी मुख्यः सात्त्विकत्यागी संन्यासीत्यर्थः। एवममुख्यं सात्त्विकं त्यागमुक्त्वा मुख्यं तमाह -- न द्वेष्टि सत्त्वेन सभ्यगाविष्टो व्याप्तस्त्यागी मुख्यः सात्त्विकत्यागी संन्यासीत्यर्थः। अकुशलमसुखप्रदं कर्म त्रिषवणस्त्राननचतुर्गुणशौचभिक्षाटनादिप्रासरुपं न द्वेष्टि। कुशले मिष्टान्नभक्षणादौ नानुज्जते प्रीति न करोति। यद्वा कर्मकुशले सेवादिकर्मकुशले शिष्यादौ नानुषज्जते तत्राकुशलं वा तं न द्वेष्टि। एतेन रागद्वेषशून्यत्वमस्य दर्शितम्? तदपि कुत इत्यपेक्षायामाह -- मेधावीति। ऊहापोहकुशलतया नित्यानित्यवस्तुविवेचनादौ प्रज्ञावान्। अनेन मोहात्तस्य परित्याग इत्युक्तात्तासात्त्यागद्य्वावृत्तिः। मेधावित्वादेव छिन्नसंशयः किं कर्माण्येव मुक्तिसाधनानि उत संन्यास एवेति संशयरहितः। अनेन कार्यमित्येवेत्युक्तादमुख्यसात्त्विकत्यागाद्य्वावृत्तिरेव। त्यागीत्यनेन यज्ञो दानमित्युक्तात्यागात्पूर्वार्धेन कायेत्युक्ताद्राजसात्तयागाद्य्ववृत्तिरित्यन्ये। आचार्योक्तव्याख्यानापेक्षयोदाहृतव्याख्यानत्रयेऽप्यधिकं स्वारस्यं चिन्त्यम्।