Sbg 17.9 scvv
Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha ा [17.9] रसान्तराणामसात्त्विकत्वेन वक्ष्यमाणत्वात्तत्प्रयोगप्राचुर्यानुसाराच्च अत्र रसशब्दो रसविशेषविषय इत्याह -- मधुररसोपेता इति। अनेन प्रत्ययस्यात्र सम्बन्धमात्रोपलक्षकतापि दर्शिता। रस्यन्त इति वा रस्याः। तत्रमधुररसोपेता इति कारणोक्तिः। माधुर्यं हि रसान्तरेभ्यः शरीरस्थितौ विशेषेण हेतुर्भवति। यथोक्तं वाग्भटेन -- रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः। षड्द्रव्यमाश्रितास्ते च यथापूर्वं बलावहाः [अ.हृ.सू.1।1415] इति। भोजनं च स्वस्थस्य मधुररसप्रायतया नियम्यते -- षड्रसान्मधुरप्रायान्नातिद्रुतविलम्बितम् [अ.हृ.सू.7।36] इति। सायनादि कालेषु च मधुर एवै को विधीयते। एवं स्नेहयुक्तआहारोऽपि रौक्ष्यविरोधी रूक्षेण वायुना शरीरस्यापि विशरारुतां वारयतीत्यप्यायुर्वेदावसितम्। अद्यमान आहारे स्वरूपस्थैर्यस्यासम्भवादगुणत्वाच्च शरीराख्यसङ्घातस्थैर्यहेतुभूतरसरुधिर मांसमेदोस्थिमज्जाशुक्राख्यधातुसप्तकरूपपरिणामस्य बलादेश्च स्वसाध्यस्य चिरकालस्थायित्वलक्षणं स्थैर्यं विवक्षितमित्याह -- स्थिरपरिणामा इति। उपयोगात्पूर्वमेव जुगुप्सनीयसन्निवेशरूपविशेषादिविरहात्सन्दर्शनमात्रेणापि प्रीतिजनकत्वमिह हृद्यत्वमित्याहरमणीयविशेषा इति। येषु धर्मशास्त्रायुर्वेदयोरुभयोरपि साङ्गत्यं? तेषां सर्वेषामिदमुपलक्षणमित्यभिप्रायेणाऽऽहएवंविधा इति। एतेन प्रागुक्तयुक्ताहारत्वं च विवृतम्।,।।17.9।।कट्वम्लशब्दयोस्त्रिकटुकतिन्तिण्यादिषु विशेषतः प्रयोगादिह तावन्मात्रविवक्षाव्युदासायाऽह -- कटुरसा अम्लरसा इति। सात्त्विकस्यापि व्रतादिव्यतिरिक्तकालेषु रुचिमात्रार्थलवणयोगानुमतेः स्वरूपतो लवणस्याहारत्वासम्भवात्प्रत्यक्षलवणस्य गोमांसतुल्यतया स्फुटनिषेधाच्चात्र तद्व्यतिरिक्तापेक्षया लवणशब्द इत्यभिप्रायेणाऽऽह -- लवणोत्कटा इति।स्निग्धमुष्णं (सात्म्यमल्पं) च भोजनम् [अ.हृ.सू.7।47] इति कोष्णस्य भोजनस्य विहितत्वात्अत्युष्णेति विशेषितम्।कट्वादीनां विदाहिनः इति भ्रमव्युदासायात्र समासोक्तिः। तीक्ष्णस्यापि मरीच्यादेस्तत्तद्द्रव्यरोचनार्थं मात्रयाऽनुमतेस्तत्राप्युपसर्गस्यान्वयो दर्शितः। उष्णस्य पृथगुपात्तत्वादत्र तीक्ष्णशब्दो न तत्पर्यायः आशुकारिषु मरीच्यादिष्वायुर्वेदे तीक्ष्णत्वमुच्यते अतोऽत्र प्रयोगक्षणप्रभृति प्रतिकूलतमानि द्रव्याणि तीक्ष्णानीत्यभिप्रायेणोदाहरति -- अतिशैत्येति। स्नेहप्रतिपक्षभूतो गुणो रौक्ष्यमनुशिष्यत इत्यभिप्रायेणाऽऽह -- शोषकरा रूक्षा इति। वातकोपनत्वमनेन सिद्धम्। अत्र विदाहिशब्दे प्रकृतिप्रत्यययोर्विवक्षितं व्यनक्ति -- तापकरा इति। पित्तकोपना इत्यर्थः।एवंविधा इति पूर्ववत्।तृष्णाशोकसमुद्भवम् [14।7] इत्यादि प्रागुक्तं स्मारयति -- रजोमयत्वादिति। कटुप्रभृतीनां दुःखादिहेतुत्वं च प्रायशोऽन्वयव्यतिरेकयोग्यमायुर्वेदविशोधितं च। दुःखप्रदत्वं धातुवैषम्यादिद्वारा शोकप्रदत्वं तत्परामर्शजपश्चात्तापादिना आमयः कालक्रमेण। न केवलमत्रैव तमोवद्दुःखादिहेतुत्वम् अपितु परम्परया परलोके देहान्तरेऽपीत्यभिप्रायेण सत्त्ववर्धकसात्त्विकाहारसमानन्यायसिद्धमर्थमाह -- रजोवर्धनाश्चेति।