Sbg 17.9 scsri
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Sridhara Swami ।।17.9।।तथा -- कट्विति। अतिशब्दः कट्वादिषु सप्तस्वपि संबध्यते। अतिकटुर्निम्बादिः। अत्यम्लोऽतिलवणोऽत्युष्णश्च प्रसिद्धः? अतितीक्ष्णो मरीचादिः? अतिरूक्षः कङ्गुकोद्रवादिः? अतिविदाही सर्षपादिः? अतिकट्वादय आहारा राजसस्येष्टाः प्रियाः। दुःखं तात्कालिकं हृदयसंतापादि? शोकः पश्चाद्भाविदौर्मनस्यं? आमयो रोगः? एतान् प्रददति प्रयच्छन्तीति तथा।