Sbg 17.9 scms
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Madhusudan Saraswati ।।17.9।।कट्विति। अतिशब्दः कट्वादिषु सप्तस्वपि योजनीयः। कटुस्तिक्तः कटुरसस्य तीक्ष्णशब्देनोक्तत्वात्। तत्रातिकटुर्निम्बादि? अत्यम्लातिवणात्युष्णाः प्रसिद्धाः? अतितीक्ष्णो मरीचादिः? अतिरूक्षः स्नेहशून्यः कङ्गुकोद्रवादिः? अतिविदाही संतापको राजिकादिः? दुःखं तात्कालिकीं पीडां शोकं पश्चाद्भाविदौर्मनस्यामामयं रोगं च धातुवैषम्यद्वारा प्रददतीति तथाविधा आहारा राजसस्येष्टाः। एतैर्लिङ्गै राजसा ज्ञेयाः सात्त्विकैश्चैत उपेक्षणीया इत्यर्थः।