Sbg 17.8 scval
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Vallabhacharya ।।17.8।।तत्र प्रथममाहाराः -- आयुरिति। सत्त्वगुणोपेतस्य सत्त्वमया आहाराः प्रिया भवन्ति। ते चायुर्विवर्द्धनाः -- सत्त्वोपलक्षितं ज्ञानं तदादिवर्द्धनाश्च। रस्याः मधुरसोपेताः स्नेहयुक्ताश्च? स्थिराः स्थिरपरिणामाः? हृद्या रम्यस्वरूपाः एवंविधा अन्नरूपा आहाराः सात्त्विकप्रियाः सत्त्वजनकाः प्रियाः सात्त्विकानां वा प्रियाः? क्षेमकरा इति तात्पर्यार्थः।