Sbg 17.8 scjaya
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Jayatritha ।।17.8।।प्रीतिविवर्धनाः हृद्याः इत्येतयोरर्थभेदमाह -- प्रीतिरि ति। अनन्तरिके ति ठन्प्रत्ययान्तम् सेवाव्यवहितकाल इत्यर्थः।प्रियं तत्कालसौख्यदं इति वचनात्। दर्शनेऽनुभवे सति पश्चादपि यन्मनोहारित्वं तद्धृद्यत्वम्।हृद्यं पश्चान्मनोहारि इति वचनादित्यर्थः। आहाराणां क्षणिकानामभावात्कथं स्थिराः इति। विशेषणमित्यत आह -- स्थिराश्चे ति। चस्त्वर्थः। प्रसिद्धं स्थैर्यं व्यावर्तयति। तदैवाचिरकाल एव पक्वा निर्वृत्तपाकाश्चिरकालं देहे गुणप्रदा इत्यर्थः। असम्भवपरिहाराय तानुदाहरति तथा ही ति।