Sbg 17.5 scval
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Vallabhacharya ।।17.5।।तेष्वपि पूर्ववद्विशेषमाह -- अशास्त्रविहितमिति द्वाभ्याम्। शास्त्रीयं पूर्वमुक्तम्। ये तु जना शास्त्रविधिमुत्सृज्य कामकारतः येषां कामकार एव हेतुस्तत एव तपस्तप्यन्ते शम्बुकादिवत् तानासुरनिश्चयान् विद्धीत्युत्तरेणान्वयः।