Sbg 17.2 scdhan
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Dhanpati ।।17.2।।प्रश्नानुरुपमुत्तरं श्रीभगवानुवाच। त्रिविधा त्रिप्रकारा श्रद्धा भवति? ययान्वितानां निष्ठां त्वं पृच्छसि सा देहिनं देहवतां जीवानां स्वभावजा। जन्मान्तरकृतधर्माधर्मादिसंस्कारो मरणकालेऽभिव्यक्तः स्वभाव उच्यते। तस्माज्जाता जीवानां त्रिविधात्स्वभावाज्जातत्वात् श्रद्धा त्रिविधा भवतीत्यर्थः। या तु अस्वभावजा असूनामभावोऽस्वभावः मरणमित्यर्थस्तस्मिन्समीपे सति जाता। मरणसमये व्यस्तानां समस्तानां वा गुणानामुद्भवे जन्मान्तरे तत्संस्कारवशात्तत्तद्गुणाधिक एव भवतीति व्यवस्था कारणमितीतरेषां व्याख्या। सा तुमुखमस्तीत वक्त्व्यं इतिन्यायविजृम्बितत्वादुपेक्ष्या। श्रद्धायास्त्रैविध्यमाह। एवं त्रिविधां तां श्रद्धां भयोच्यमानां श्रुणु।