Sbg 17.2 scanand

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Anandgiri ।।17.2।।विशेषनिष्ठमुत्तरं सामान्येन वक्तुं न शक्यमित्याशयेन परिहरति -- सामान्येति। किमिति श्रद्धात्रैविध्यं प्रश्नानुपयुक्तमुच्यते तत्राह -- यस्यामिति। श्रद्धापूर्विकायां क्रियायामिति यावत्। श्रद्धात्रैविध्ये हेतुमाह -- सा स्वभावजेति। स्वभावशब्दार्थं प्रकृतोपयोगितया कथयति -- जन्मान्तरेति। कथं त्रिविधेत्यपेक्षायामाह -- सात्त्विकीत्यादिना। कथमुक्ता श्रद्धा स्वभावजेति तत्राह -- तामिति।