Sbg 17.28 scang

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Abhinavgupta ।।17.28।।इदानीमश्रद्धावतः तामसं कर्म सर्वथा ( S सर्वथैव ) निष्फलं कारककलापसंयोजनसमुपजनितप्रयासमात्रफलमेव ( Nसंयोजनमुपजनित -- ) ? इति सर्वथैव ( S सर्वथा ) अश्रद्धावता न भाव्यमित्युच्यते -- अश्रद्धयेति। असदिति -- अप्रशस्तम्। तस्मात् प्रशस्ते कर्मणि यतमानानां सुखेनैव भवति शिवम् इति।।।शिवम्।।अत्र संग्रहश्लोकः -- स एव कारकावेशः क्रिया सैवाविशेषिणी।


तथापि विज्ञानवतां मोक्षार्थे पर्यवस्यति।।।।इति श्रीमहामाहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविर


चिते श्रीमद्भगवद्गीतार्थसंग्रहे सप्तदशोऽध्यायः।।