Sbg 17.27 scval

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vallabhacharya ।।17.27।।किञ्च यज्ञ इति। तपसि दाने च स्थितिः सदिति चोच्यते। स्थादिधातुगणे भुवो व्यापकत्वं? तदनुकृञश्चेति यज्ञपत्युपाध्यायाः प्रोचुः। अतएवोक्तं -- सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः। तस्यापि भगवानेष किमतद्वस्तु रूप्यताम् इति। तथा सति सत्पदं (श्रेयोवचनं) निष्ठावचनमुक्तम्। कर्म चैव तदर्थीयं सदुत्तममित्येवाभिधीयते। एतेनमां विधत्तेऽभिधत्ते मां [भाग.11।21।43] इति प्राक्तनकर्मसदाचारपरिपाटी दर्शिता।