Sbg 17.26 scsh

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Shankaracharya ।।17.26।। --, सद्भावे? असतः सद्भावे यथा अविद्यमानस्य पुत्रस्य जन्मनि? तथा साधुभावे च असद्वृत्तस्य असाधोः सद्वृत्तता साधुभावः तस्मिन् साधुभावे च सत् इत्येतत् अभिधानं ब्रह्मणः प्रयुज्यते अभिधीयते। प्रशस्ते कर्मणि विवाहादौ च तथा सच्छब्दः पार्थ? युज्यते प्रयुज्यते इत्येतत्।।