Sbg 17.26 scjaya

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Jayatritha ।।17.26।।सद्भावे सत्तायां इति प्रतीतिनिरासार्थमाह -- सद्भावे ति। प्रजननं प्रागसतः सत्तापादनम्। यद्यपि सद्भावशब्दः सत्तामात्रवाची तथाप्यत्र ब्रह्मणो जगज्जनकत्वस्य विवक्षितत्वात्सत्ताविशेषप्रजननपर इति ज्ञायत इति प्रतिपादयितुं सूचितमित्युक्तम्। नन्वनेन यज्ञादीनां केतिकर्तव्यता प्रतिपादिता भवता इत्यत आह -- ओमि ति। उक्तोङ्कारार्थज्ञानपूर्वकं अनभिसन्धाय फलं ब्रह्माभिसन्धाय च ब्रह्मज्ञानभक्तिपूर्वकं तद्विषयत्वेन निष्ठया वेदोक्तप्रकारेण ब्राह्मणैः सहेत्यपि ग्राह्यम्। आदिपदेन जपादिग्रहणम्। षष्ठी तृतीयार्थे? नामसाम्यात्। नामसाम्येनावगतात्तत्प्रतिमात्वात्। घटादीनामपि ब्रह्मप्रतिमात्वसाम्यात्को विशेषो यज्ञादेः इत्यत उक्त मतिप्रीते रिति। ब्रह्मणः यज्ञादिषु निष्पादितं प्रतिष्ठापितम्। अत एवं क्रियमाणे यज्ञादिकं,सात्त्विकमन्यद्राजसं तामसं वेत्येवमितिकर्तव्यता प्रतिपादितेति वाक्यशेषः। अत्र हिओं तत्सत् [17।23] इत्यनेन ब्रह्मणो यन्नामत्रयं तद्यज्ञादेरपि वाचकमिति प्रतिपादितम्। तेन यज्ञादेर्ब्रह्मप्रतिमात्वं सूचितम्।ब्राह्मणाः इत्यादिनोङ्कारं ब्रह्मणि यज्ञादौ च व्युत्पाद्य तदुच्चारणाचार उक्तः। तेनार्थस्मरणपूर्वकमोङ्कारमुच्चार्य वेदोक्तप्रकारेण ब्राह्मणैः सह यज्ञादिकं कार्यमिति सूचितम्।तत् इत्यनेन तच्छब्दो यज्ञादौ ब्रह्मणि च व्युत्पादितः। तेन फलमनभिसन्धाय ब्रह्माभिसन्धाय चेति लब्धम्।सद्भावः इत्यनेन सच्छब्दो ब्रह्मणि व्याख्यातः। तेन ब्रह्मज्ञानपूर्वकमिति लभ्यते।