Sbg 17.24 scms
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Madhusudan Saraswati ।।17.24।।इदानीमकारोकारमकारव्याख्यानेन तत्समुदायोंकारव्याख्यानवदोंकारतच्छब्दसच्छब्दव्याख्यानेन तत्समुदायरूपं ब्रह्मणो निर्देशं स्तुत्यतिशयाय व्याख्यातुमारभते चतुर्भिः। तत्र प्रथममोंकारं व्याचष्टे -- तस्मादिति। यस्मादोमिति ब्रह्मेत्यादिषु श्रुतिष्वोमिति ब्रह्मणोनाम प्रसिद्धं तस्मादोमित्युदाहृत्य ओंकारोच्चारणानन्तरं विधानोक्ता विधिशास्त्रबोधिताः ब्रह्मवादिनां वेदवादिनां यज्ञदानतपःक्रियाः सततं प्रवर्तन्ते प्रकृष्टतया वैगुण्यराहित्येन वर्तन्ते। यस्यैकावयवोच्चारणादप्यवैगुण्यं किं पुनस्तस्य सर्वस्योच्चारणादिति स्तुत्यतिशयः।