Sbg 17.14 scms

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhusudan Saraswati ।।17.14।।क्रमप्राप्तस्य तपसः सात्त्विकादिभेदं कथयितुं शारीरवाचिकमानसभेदेन तस्य त्रैविध्यमाह त्रिभिः -- देवद्विजेत्यादिना। देवा ब्रह्मविष्णुशिवसूर्याग्निदुर्गादयः? द्विजा द्विजातयो ब्राह्मणाः? गुरवः पितृमात्राचार्यादयः? प्राज्ञाः पण्डिता विदितवेदतदुपकरणार्थास्तेषां पूजनं प्रणामशुश्रूषादि यथाशास्त्रं? शौचं मृज्जलाभ्यां शरीरशोधनं? आर्जवमकौटिल्यं भावशुद्धिशब्देन मानसे तपसि वक्ष्यति? शारीरं त्वार्जवं विहितप्रतिषिद्धयोरेकरूपप्रवृत्तिनिवृत्तिशालित्वं? ब्रह्मचर्यं निषिद्धमैथुननिवृत्तिः? अहिंसाऽशास्त्रप्राणिपीडनाभावः। चकारादस्तेयापरिग्रहावपि। शारीरं शरीरप्रधानैः कर्त्रादिभिः साध्यं नतु केवलेन शरीरेण। पञ्चैते तस्य हेतव इति हि वक्ष्यतीत्थं शारीरं तप उच्यते।