Sbg 17.10 scvv
Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha
।।17.10।।सात्त्विकराजसाहारयोर्गुणकार्यकथनेऽपि तामसे गुणमात्रकथनमदूरविप्रकर्षेण राजससमानकार्यत्वात् सर्वेष्वाहारेषु यामातिक्रमणमात्रेण दोषाभावात्तेषु तेषु द्रव्येषु यावता कालेन दुष्टता? तावद्विवक्षामाह -- यातयामं चिरकालावस्थितमिति। यामः श्रेष्ठोंऽशः यथाघृतात्परं मण्डमिवातिसूक्ष्मम् इति केचित्। तेन निर्वीर्यत्वमुक्तं भवति। तदपिचिरकालावस्थितमित्यनेन अर्थसिद्धम्। अम्मयेषु पृथिवीमयेषु च आहारेषु तत्तत्पाकभेदेनापि कदाचिदपि सर्वरसत्यागाभावात्तत्तद्रव्यस्वभावतयाऽनुशिष्टरसत्यागेन रसान्तरापत्तिरिह गतरसशब्देन,विवक्षितेत्याहत्यक्तस्वाभाविकरसमिति। एतेन गतरसशब्देन निर्वीर्यस्योक्ततयायातयामं मन्दपक्वम् इति व्याख्या निरस्ता।यद्यपि पूतिशब्दोऽसात्त्विकतया भगवच्छास्त्रादिसिद्धे करञ्जादिद्रव्येऽपि प्रयुज्यते तथापि अत्र द्रव्यविशेषोपादानप्रकरणाभावाद्गुणादिमुखेन सर्वाहारोपलक्षणप्रकरणाच्चात्र पूतिशब्देन हेयतया लोकशास्त्रप्रसिद्धगुणविवक्षामाह -- दुर्गन्धोपेतमिति। कालातिपत्तिमात्रस्य यातयामशब्देन ग्रहणात् रसत्यागस्यगतरसम् इत्युक्तत्वात् येषु कालातिपत्तौ दोषः? क्षीरादिष्विवातञ्चनादिभिश्च रसान्तरापत्तिः? तत्र कालातिक्रमणमात्रेण रसान्तरापन्नत्वमिह विवक्षितमित्याह -- कालातिपत्त्यारसान्तरापन्नमिति। हेयविकृत्यन्तरादीनामुपलक्षणमिदम्। अत एव पक्वानामविकलानामपि जलादीनां रात्र्यन्तरितानां त्यागः। एतेन यातयामशब्दोऽत्र रसान्तरापत्तिरहितकालातिक्रममात्रदुष्टविषय इति दर्शितम्।
उच्छिष्टविशेषस्य शास्त्रानुमतेराचार्योच्छिष्टस्य च पापविशेषप्रायश्चित्ततया पवित्रत्वेनापि ग्रहणात्तद्व्यतिरिक्तविषयोऽत्र उच्छिष्टशब्द इत्याह -- गुर्वादिभ्योऽन्येषामिति।गुर्वादीत्यादिशब्देन पितुः ज्येष्ठस्य भ्रातुः भार्याविषये भर्तुश्च ग्रहणम्। यत्तु अदितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनमपचत्। तस्या उच्छेषणमददुः। तत्प्राश्नात्। सा रेतोऽधत्त इत्यादौ उच्छेषणप्राशनमाम्नायते तद्ब्रह्मौदनादिविधिपरत्वादन्यपरम्। भुक्तावशिष्टपाकपात्रस्थौदनविषयत्वेऽप्यविरुद्धम्। अप्राप्तत्वाद्विधिपरत्वस्वीकारेऽपि अदितिसाध्यदेवसंव्यवहारमात्रविषयम्। न तावता अद्यतनानामनुष्ठानप्राप्तिः प्राप्तावपि तथाविधकर्मनियतम्। नचात्र विधिस्तत्कल्पनावकाशश्चेत्यप्राप्तिरेव। यत्तु भगवता नारदेन जातिस्मरेण प्राचीनशूद्रजन्मानुष्ठानमनुसृत्योक्तम्उच्छिष्टलेपाननुमोदितो द्विजैः सकृत्स्म भुञ्जे तदपास्तकिल्बिषः [भाग.1।5।25] इत्यादि तदपि तस्मिन् जन्मनि नारदस्तेषां शिष्यः शूद्रश्चेति तादृशेष्वेव तत्प्राप्नोति नान्यादृशेषु। तथा सति हि वाक्यान्तरमपि न विरुध्यते। न च वचनविरोधे लिङ्गदर्शनमात्रेणानुष्ठानक्लृप्तिः। प्रतिषेधति ह्याचार्यपुत्रादेरप्युच्छिष्टम् -- उच्छिष्टाशनवर्जमाचार्यवदाचार्यपुत्रे वृत्तिः [आ.ध.1।2।7।30] इत्यादिना। किमुतान्येषाम् भागवतस्य तु आचार्यव्यतिरिक्तसमस्तोच्छिष्टभक्षणेऽपि तीव्राणि प्रायश्चित्तान्यनुशिष्यन्ते। यथा सनत्कुमारीयसंहितायामुदाहृतमित्यागमप्रामाण्ये भगवद्यामुनाचार्यैरुपात्तं -- निर्माल्यं भक्षयित्वैवमुच्छिष्टमगुरोरपि। मासं पयोव्रतो भूत्वा जपन्नष्टाक्षरं सदा। ब्रह्मकूर्चं ततः पीत्वा इत्यादि।
भाष्ये चात्र गुरुशब्द आचार्यविषयः? पितृविषयो वेत्ययुक्तम्? गुरुशब्दार्थोपाध्यायाद्युच्छिष्टग्रहणशास्त्राभावात्। नच यत्किञ्चिदुपदेशमात्रेऽप्याचार्यत्वम्?उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः। सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते [मनुः 2।140] इत्यादिभिस्तल्लक्षणात्? अन्यत्र प्रयोगस्योपचारादपि सम्भवात्। यश्चोपनेता प्रणवादिमात्रमुपदिश्य विरतः? यश्च केवलं रहस्यशब्दनिर्दिष्टा मोक्षसाधनभूता विद्यास्तत्तच्छ्रुतिमुखेन शिक्षयति तयोरप्याचार्यत्वादिकं वचनबलादङ्गीक्रियते। उक्तं च गुर्वादिलक्षणं भगवता याज्ञवल्क्येन -- स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति। उपनीय तु तद्वेदमाचार्यः स उदाहृतः। एकदेशमुपाध्यायः [1।3435] इति। यत्तुएकाक्षरप्रदातारमाचार्यं योऽवमन्यते (यो गुरुं नाभिमन्यते) [अत्रिस्मृ.10] इत्यादि? तदवमतिनिवारणाद्यर्थमाचार्यदृष्टिमात्रेणोच्यते न तावता आचार्यत्वप्रयुक्तसर्वोपनिपातः। यद्यप्याचार्यशब्दो निरुक्त्याद्यनुसारादस्त्रशस्त्रादिशिक्षकेषु द्रोणकृपादिषु प्रयोगप्रौढ्या च यथाप्रयोगं सर्वत्र मुख्य इति कैश्चिदङ्गीक्रियेत? तथाप्युच्छिष्टभक्षणानुमतिनिदानमाचार्यत्वं प्रणवादित्रिकपूर्वकपरविद्योपदेष्टर्येव तथैव शास्त्रैर्नियमाच्छिष्टाचाराच्च।प्रत्यक्षश्रुत्यादिविरुद्धस्तु भ्रान्तानामभिप्रायान्तरेण शास्त्रोल्लङ्घिनामप्याचारो न शिष्टाचारः। यदपि कैश्चित्पठ्यतेनारायणैकनिष्ठस्य या या वृत्तिस्तदर्चनम्। यो यो जल्पः स स जपस्तद्ध्यानं यन्निरीक्षणम्। तत्पादाम्ब्वतुलं तीर्थं तदुच्छिष्टं सुपावनम्। तदुक्तिमात्रं मन्त्राग्र्यं तत्पृष्टमखिलं शुचि इति। इदमपि नारायणैकनिष्ठप्रशंसापरम् न तु स्वयं विधायकम्। अन्यतः प्राप्तेरेव ह्यत्र प्रशंसा। तत्र प्रथमश्लोकः स्वभावप्राप्तमर्थप्राप्तं चानुवदति यच्च शास्त्रप्राप्तम् न तु पुनः शास्त्रान्तरनिषिद्धपरामर्शि।,प्रमाणप्राप्तविषयत्वादेव हिअतुलं सुपावनमग्र्यमखिलम् इति विशेषणेषु संरम्भः।ब्राह्मणाः पादतो मेध्याः इत्यादिभिर्विप्रपादोदकस्य सामान्यतः पावनत्वप्राप्तौ भागवतत्वावस्थायां अतुलं तीर्थमिति विशेष्यते। एवमनेकान्तिनोऽप्युपनेतृप्रभृतेरुच्छिष्टे पावनत्वेन प्राप्ते तस्य नारायणैकनिष्ठत्वदशायां सुपावनत्वं विधीयते। तथा महापुरुषकृतस्तुत्यादेर्मङ्गलतमत्वे सिद्धेतदुक्तिमात्रं मन्त्राग्र्यम् इति भगवदनन्यप्रणीतस्य गाथागीतादेरपि मन्त्राग्र्यवत्फलादिहेतुत्वं प्रतिपाद्यते।एवं शुद्धानां शोधकापेक्षायां निर्णेजनादिवन्महात्मनां स्पर्शोऽपि माहात्म्यविशेषवशादिच्छाशोधकतया प्राप्तःतत्स्पृष्टमखिलं शुचि इत्यनेन सर्वस्यापि द्रव्यस्य पृथक्चोदितशोधकभेदस्य भेदस्य भागवतस्पर्श एकः शोधको भवितुमर्हतीत्युच्यते। अन्यथा भागवतेन यदृच्छादिस्पृष्टचण्डाललशुनगृञ्जनाद्यशुद्धग्रहणेनालेपकपादवत्स्पृश्यास्पृश्यभक्ष्याभक्ष्याद्यद्वैतप्रसङ्गः। एतेन परमाप्तस्य भक्ताङ्ग्रिरेणोर्भाषागाथापि निर्व्यूढा। एवं हि सा संस्कृतेन विपरिणंस्यते -- दिव्यैरवेद्यविभवेति यदि ब्रुवन्ति माध्वीमनोज्ञतुलसीक यदीति चाहुः। ऊनक्रिया अपि परानपि कारयन्तो भुक्ताधिकं ददति चेन्ननु तत्पवित्रम् इति। इदमपि सङ्कीर्तनप्रशंसापरमिति प्रकरणात्स्ववाक्यस्वारस्याच्च सुव्यक्तम्। भुक्तशेषशब्दश्च पाकपात्रस्थविषयत्वेऽपि न विरुद्धः यथाअन्नशेषः किं क्रियताम् इत्यत्र अवशिष्टम्। भुक्तशिष्टं तु पाकपात्रस्थमपि त्याज्यमेव। तत्परिहारार्थोऽयं प्रतिप्रसवः। अन्यथापि प्रमाणान्तराविरोधायाचार्याद्युच्छिष्टविषयमेव स्यात्। तथाहिऊनो हीनः परिस्रस्तो नष्टः इति विकलभागवतान् दुष्कर्मतारतम्याच्चतुर्धा रहस्याम्नायविदः समामनन्ति। तत्रोनत्वाद्यवस्थायामाचार्योच्छिष्टस्यापवित्रत्वं प्रसक्तम् तत्र यद्यनन्यत्वस्थैर्यव्यञ्जनसङ्कीर्तनं स्यात्? तदा तदुच्छिष्टमपवित्रं न भवतीति अनन्यत्वभङ्गे ह्याचार्यस्यापि सर्वथा वर्जनं तत्रैवाम्नातमित्यलमतिप्रसङ्गेन।
मेधाविरोधिन्यप्यमेध्यशब्दप्रयोगात्तस्य च दृष्टप्रत्यवायमात्रपर्यवसानात्ततोऽपि दोषातिशयसूचनाय मेधोऽत्र यज्ञः? तदर्हं मेध्यं? तद्विपरीतममेध्यमित्याह -- अयज्ञार्हमिति। ननु यज्ञार्हस्यापि द्रव्यस्याभक्षणीयत्वं मन्वादिभिरुच्यते यथा -- वृथा कृसरसंयावं पायसापूपमेव च। अनुपाकृतमांसानि देवान्नानि हवींषि च [मनुः5।7] इति। तत्राऽऽह -- अयज्ञशिष्टमित्यर्थ इति। एतेन सात्त्वतादिशास्त्रेषुनानिवेद्य हरेः किञ्चित्समश्नीयात्तु पावनम् इत्यादिकमप्यत्रानुसंहितम्। आह्रियन्त इत्याहारास्तत्तद्द्रव्याणि प्रतीयन्ते? न च भोजनक्रियामात्रे यातयामत्वाद्युक्तिरन्वेति नापि मुख्ये सम्भवति लक्षणा न्याय्या। अतःकृत्यल्युटो बहुलम् [अष्टा.3।3।113] इति कर्मणि ल्युडन्ततामाह -- भुज्यत इति।पुनश्च तमसो वर्धनमिति -- पूर्ववत्। आहारत्रैविध्योक्तेरभिप्रेतमाह -- अत इति। पथ्यापथ्यविभागोक्तौ पथ्यग्रहणवदिति भावः। एवमेव यज्ञादित्रैविध्योक्तावप्यन्ततोऽभिप्रायो ग्राह्यः।