Sbg 17.10 scneel

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।17.10।।यातयामं प्रहरात्प्राक्कृतं शीतलतां गतमित्यर्थः। यातयामं अर्धपक्वं निर्वीर्यस्य गतरसेनैवोक्तत्वादिति भाष्यम्। गतरसं रसविमुक्तम्? पूति दुर्गन्धि? पर्युषितं पक्वं सद्रात्र्यन्तरितम्? उच्छिष्टं भुक्तावशिष्टम्? अमेध्यं यज्ञानर्हम्? भोजनं अन्नं तामसप्रियम्।